________________
सटीकम् ।
पृच्छायां जुगुप्सने ” इत्यमरः । मित्रवियोगे कामं विषयानुभवनं जीवितधारणं च धैर्यादेवेति तात्पर्यम् || ३६ |
इत्युक्त्वाऽथ पुनरपि सुरः सामभेदौ व्यतानी - द्योतः स्नेहस्त्वयि चिरमभूत्पूर्वबन्धोस्तदा मे । धिक्कारस्तं तिरयतितरां त्वत्कृतोऽस्मान्स हन्तुं
मन्दं मन्दं नुदति पवनश्चानूकूलो यथा त्वाम् ॥ ३७ ॥
३७
इत्युक्त्वेति ॥ इत्युक्त्वा एवमभिधाय । अथो अनन्तरम् । पुनरपि भूयोपि । सुरः देवः । सामभेदौ सामभेदवचने । “सामदाने भेददण्डावित्युपायचतुष्टयम्" इत्यमरः ॥ व्यतानीत् विस्तारमकरोत् । पूर्वबन्धोः प्राग्भवभ्रातुः । मे मम । तदा तज्जन्मनि । त्वयि भवति । य अन्तःस्नेहः । अन्तरङ्गे भवः स्नेहस्तथोक्तः । अन्तःप्रीतिः । चिरं स्थिरम् । अभूत् अभवत् । तं स्नेहम् । त्वत्कृतः भवता विहितः । धिक्कारः तिरस्कारः । तिरयतितगम् अत्यन्तं तिरस्करोति । पुनः अनुकूलः अनुरूपः । पवनः वायुः । नभस्वद्वातपवन-" इत्यमरः । मेघमित्याशयः । यथा च नुदति यद्वत्प्रेरयति । यत्तदोर्नित्यसम्बद्धत्वात् । तद्वत्सः त्वत्कृतधिक्कारः । त्वां भवन्तम् । हन्तुं हननाय । मन्दंमन्दं शनैः शनैः अतिमन्दमित्यर्थः ॥ अत्र कथंचिद्वीप्सायां द्विरुक्तिः । अस्मान् नः । नुदयति प्रेरयति । प्राग्भवस्नेहसद्भावेपि त्वयाऽरविन्दनृपमुखेन कारितधिक्कारवशात् त्वं हन्तव्य इति तात्पर्यम् ॥ ३७ ॥
८८
तस्माद्योगं शिथिलय मुने देहि युद्धक्षणं मे दानादन्यन्न खलु सुकृतं देहिनां श्लाघ्यमस्ति ।
१ शंबरः ।