________________
३६
पार्श्वाभ्युदयकाव्यं
श्रोताद्ये भूतपञ्चके । भूवादिशब्दयोनौ स्याद्धातू रक्तरसादिके " इत्यभिधानात् । असुनिरसनात् असूनां प्राणानां निरसनं त्यजनं तस्मात् । " पुंसि भून्र्यसवः प्राणाः " " प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः ” इत्युभयत्राप्यमरः । रक्षति पालयति । " अपायेऽवधौ ” इति पञ्चमी । प्राणान् गन्तुं न त्यजतीत्यर्थः । मन्ये एवमहं वेति यावत् ॥ ३५ ॥
तच्चाश्चर्यं यदहमभजं त्वद्वियोगेपि कामान् प्राणैरार्तः किमनुकुरुते जीवलोको हताशः । पुंसां धैर्यं किमुत सुहृदां किं पुनः सङ्गमाशा
सद्यः पाति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ ३६ ॥ ९ ॥
66
तच्चेति ।। यत् अहम् | त्वद्वियोगेपि भवद्विरहेपि । कामान् अभिलाषान् । “ कामोऽभिलाषस्तर्षश्च ” इत्यमरः । अभजं सेवे स्म। तच्च आश्चर्यम् अद्भुतम् । प्राणैः असुभिः । आर्तः दुःखितः । हताशः नष्टाभिलाषः । आशा तृष्णापि जायते" इत्यमरः । जीवलोकः संसारिजनः । किमनुकुरुते किं कार्यमनुकूलं विदधाति न किमपीत्यर्थः । प्राणभयात्कामानभजदिति भावः । किमुत अथवा । " आहो उताहो किमुत विकल्पे किं किमूत च " इत्यर्थः । पुंसां पुरुषाणाम् । “ स्युः पुमांसः पञ्चजना: " इत्यमरः । धैर्यं धीरत्वम् । स्यादिति शेषः । तथाहि । सुहृदां मित्राणाम् । अथ मित्रं सखा सुहृद् इत्यमरः । विप्रयोगे विरहे । " विप्रलम्भो विप्रयोगः " इत्यमरः । सङ्गमाशा संसर्गाभिलाषा । सद्यः पाति सद्यः पतति इत्येवंशीलं तथोक्तम् । प्रणयि प्रेमयुक्तम् । “ प्रसादप्रणयौ समौ " इत्यमरः । । हृदयं जीवितम् । “ हृदयं जीविते चित्ते बाह्यस्याकृतजीवयोः " इति शब्दार्णवः । किं पुनः रुणद्धि पुनः कथं स्तम्भयतीति प्रश्नः। “ किं
66
I
""