________________
सटीकम् ।
जीवन्तीमित्यर्थः ।। अव्यापन्नाम् अनाप्तविपदम् । “ आपन्न आपत्प्राप्तः स्यात्" इत्यमरः । अप्राप्तमूर्च्छाद्यवस्थामित्यर्थः । सतीं पतिव्रताम् । “ सती साध्वी पतिव्रता " इत्यमरः । भ्रातुर्जायां भ्रातुर्मम जाया प्रिया कमठस्याप्यनुकूलेत्याशयः । ताम् । अथवा - भ्रातृजायां पुत्रवतीम् । " प्रजावती भ्रातृजाया 33 इत्यमरः । तां वसुन्धराम् । द्रक्ष्यसि अपश्यः । जानासि मन्यसे । तत्पूर्वभवप्रपञ्चं स्मरेत्यर्थः ॥ अत्र यास्यसि द्रक्ष्यसीति धातुद्वयस्य स्मृत्यर्थे " यदि लट्" इति भूतार्थस्मरणविषये । स्मृत्यर्थधातोर्जानातेरुपपदत्वेन लट् ॥ ३४ ॥
1
३५
चित्रं तन्मे यदुपयमनानन्तरं विप्रयुक्ता
त्वत्तः साध्वी सुरतरसिका सा तदा जीवति स्म । मन्ये रक्षत्यसुनिरसनाद्धातुमापद्गताना
माशाबन्धः कुसुमसदृशं प्रायशो द्यङ्गनानाम् ॥ ३५ ॥
चित्रमिति । यत् । तदा तद्भवे । उपयमनानन्तरं विवाहानन्तस्म् । “ विवाहोपयमौ समौ ” इत्यमरः । त्वत्तः भवतः । विप्रयुक्ता वियुक्ता । सुरतरसिका निधुवनप्रीता । साध्वी पतिव्रता । सा वसुन्धरा । जीवति स्म अजीवत् ॥ तत् तदेतत् । मे मम । चित्रम् आश्चर्यम् । “विस्मयोद्भुतमाश्चर्य चित्रम् " इत्यमरः । अवभासत इति शेषः । तथाहि । आपद्गतानाम् आपदं गच्छन्ति स्म तथोक्तास्तेषाम् । “ विपत्त्यां विपदापदौ " इत्यमरः । अङ्गनानां नारीणाम् । आशाबन्धः बध्यते अनेनेति बन्धः बन्धनमिति यावत् । आशैवबन्धस्तथोक्तः । प्रायशः प्रायेण । प्रायशो बहुशः परम् । कुसुमसदृशमपि कुसुमसुकुमारमपि अतिकोमलमित्यर्थः । धातुं प्राणधातुम् । " शब्दादौ हरितालादौ वातश्लेष्मादिकेऽपि च । मनःशिला हिरण्यादौ
१ साध्वीत्यत्र व्यतिरेकलक्षणया असाध्येव तथापि अजीवदिति यत्तत् चित्रं जीवने बीजं निधुवनलालस्यमेवेति अरुंतुदवचनम् इति भासते ।