________________
३४
पार्श्वाभ्युदयकाव्यं
66
दन्ता यस्या इति सुदती । "स्त्रियां नाम्नि” इति दन्तस्य दतादेशः । नृदुग् ” इति ङी । वसुन्धराभिधा कान्ता । दूषिता निन्दिता । आसीत् अभवत् ॥ तां च प्रियां दिवसगणनातत्पराम् । अवशिष्टदिवसानां गणनायां सङ्ख्याने तत्परामासक्ताम् । “ तत्परे प्रसितासक्तौ ” इत्यमरः । अरविन्दकृतशापकलिते वत्सरे अवशिष्टदिनानामत्यये पतिरागमिष्यतीति चिन्तयन्तीत्यर्थः ॥ एकपत्नीम् एकः पतिर्यस्याः सा तथोक्ता तां पतिव्रताम् । " सती पतिव्रता साध्वी पतिवत्येक पत्त्यपि " इति धनञ्जयः । अवश्यं निश्चयेन । " अवश्यं निश्चये द्वयम् ” इत्यमरः । अज्ञातं परैरबुद्धं यथा भवति तथा । स्मरति ध्यायति ॥ ३३ ॥
जानासि त्वं प्रथमवयसि स्वीकृतां तां नवोढां
त्यक्त्वा यास्यस्यवनिपतिना साकमेकाकिनीं यत् । प्रत्यावृत्तः कथमपि सतीं जीवितं धारयन्तीमव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् ॥ ३४ ॥
जानीसीति ॥ यत् यस्मात् कारणात् । त्वं भवान् । प्रथमवयसि बाल्यावस्थायाम् । “ खगबाल्यादिनोर्वयः " इत्यमरः । स्वीकृतां प्रागस्वा इदानीं स्वा कृता स्वीकृता तां नवोढाम् । उह्यते स्म ऊढा नवाचासौ ऊढा च तथोक्ता ताम् । एकाकिनीम् असहायाम् । " एकाकी त्वेक एकक: " इत्यमरः । तां वसुन्धराम् । त्यक्त्वा मुक्त्वा । अवनिपतिना अरविन्दभूपतिना । साकं सह । “साकं सत्रा समं सह” इत्यमरः । यास्यसि अगमः । अविहतगतिः सफलगमनः सन् । सादितवज्रवीर्यरिपुनृपस्सन् इत्यर्थः । प्रत्यावृत्तः पुनरागतः । कथमपि केनापि प्रकारेण । जीवितम् आयुष्यम् । “ आयुर्जीवितकालो ना" इत्यमरः । धारयन्तीं धारयतीति धारयन्ती ताम् । शतृत्यः । उगिदचः ” इति नम् । " नृदुगिति " ङी । प्रियागमनप्रत्याशया