________________
पार्श्वाभ्युदयकाव्यं
स्यादाकृतमिति ॥ मम यक्षस्य ॥ पुरतः अमतः ॥ यः कश्चन पुरुषः ॥ स्वस्थवीराग्रणीः वीराणामग्रणीस्तथोक्तः भटाप्रेसरः । स्वस्थः परानपेक्षी स चासौ वीराग्रणीश्चेति कर्मधारयः । सङ्ग्रामरसिकः सन् । एकं क्षणम् एकक्षणपर्यन्तम् ॥ न तिष्ठेत् न वसेत् ॥ तं तं पुरुषम् ॥ साम्प्रतम् इदानीम् । “ एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा " इत्यमरः ॥ हन्तुं हननाय || नेशः अहं कमठचरः न समर्थः । इत्याकूतं एतावानभिप्रायः । " आकूतं स्यादभिप्रायः " इति व्याडिः ॥ स्यात् तर्हि ॥ एषोऽहं प्रत्यक्षभूतो यक्षः । भटमतः भटैर्मन्यते स्म भटमतः वीरवर्यः । वा अथवा । " उपमायां विकल्पे वा " इत्यमरः ॥ कीर्त्तिलक्ष्मीप्रियः कीर्तिश्च लक्ष्मीश्च तयोः प्रियो वल्लभः तथोक्तः ॥ ननु न किम् । “ प्रश्नावधारणानुज्ञाऽनुनयामन्त्रणे ननु इत्यमरः ॥ वद त्वं ब्रूहि ॥ त्वयि भवति ॥ सन्नद्धे सज्जीकृते सति । " सनद्धो वर्मितः सज्जः इत्यमरः ॥ विरहविधुरां विरहेण विधुरां विवशाम् । विधुरं तु प्रविश्लेषे " इत्यमरः ॥ जायां कान्ताम् । “भार्या जाया " इत्यमरः ॥ कः उपेक्षेत काकुः । न कोप्युपेक्षां कुर्यादित्यर्थः ॥ ३१ ॥
""
55
66
३२
श्रुत्वाप्येवं बहु निगदितं जोषमेवायमास्ते
योगी योगान्न चलतितरां पश्य धीरत्वमस्य । स्त्रीमन्यो वा भयपरवशः सोऽयमास्ते धिगस्तु
न स्यादन्योऽप्ययमिव जनो यः पेराधीनवृत्तिः ॥ ३२ ॥ ८ ॥
श्रुत्वापीति । एवम् उक्तप्रकारेण । बहुनिगदितं बहुना भाषितम् । श्रुत्वापि श्रुतिविषयं कृत्वापि । अयं योगी एष मुनिः । जोषं तूष्णीम् । “ तूष्णीमर्थे सुखे जोषम् " इत्यमरः । आस्ते वर्तते ॥ योगात्
१ अहमिवेत्यपि पाठः ।। २ पराधीनवृत्तित्वमस्य योगायत्तत्वम् अत एव निंदाप्येषा अंतर्मुखो महानयं न किंचिदपि चलतीति स्तुत्यां पर्यवस्यतीति हृदयम् ।