________________
सटीकम् । दिव्ये याने त्रिदिववनितालिङ्गितं व्योममार्गे ___ सन्माणिक्याभरणकिरणद्योतिताङ्गं तदानीम् । गां गच्छन्तं नवजलधराशङ्कयाऽधः स्थितास्त्वां
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः ॥ ३० ॥ दिव्य इति ॥ तदानीं गमनावसरे। “ तदा तदानीम् " इत्यमरः ।। व्योममार्गे नभोवम॑नि । “व्योम पुष्करमम्बरम्' इत्यमरः ॥ दिव्ये दिवि स्वर्गे भवं दिव्यं तस्मिन् ॥ याने विमाने ॥ त्रिदिववनितालिङ्गितं देवस्त्रीभिरालिङ्गितम् ॥ सन्माणिक्याभरणकिरणद्योतिताङ्गं माणिक्यैः रत्नैः कृतान्याभरणानि माणिक्याभरणानि सन्ति च तानि तानि चेति कर्मधारयः । “ सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यहितेऽपि सन् ” “ अलङ्कारस्त्वाभरणम्” इत्युभयत्राप्यमरः । तेषां किरणैः मयूखैः द्योतितानि प्रकाशितान्यङ्गान्यवयवा यस्य तम् ॥ गां दिवम् । “ स्वर्गेषु पशुवाग्वज्रदिवेत्रघृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः” इत्यमरः ॥ गच्छन्तं प्रस्थितं भवन्तम् ॥ नवजलधराशङ्कया नूतनजलधरसन्देहेन ॥ अधः स्थिताः भूमिष्ठाः ॥ पथिकवनिताः पन्थानं गच्छन्तः पथिकास्तेषां वनिताः । “ पदष्ठट् ” इति ठट् । “ पान्थः पथिक इत्यपि” “वनिता महिला तथा” इत्युभयत्राप्यमरः ॥ प्रत्ययात् प्रियागमनविश्वासात् । “ प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ” इत्यमरः ॥ आश्वसन्त्यः आयूर्वकस्य श्वस्धातोः शतृत्यः । प्रीणन्त्यः सत्यः ॥ प्रेक्षिष्यन्ते द्रक्ष्यन्ति ॥ ३०॥ स्यादाकूतं मम न पुरतः स्वस्थवीराग्रणीर्य
स्तिष्ठेदेकं क्षणमिति न तं साम्प्रतं हन्तुमीशः। नन्वेषोऽहं वद भटमतः कीर्तिलक्ष्मीप्रियो वा
कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायाम् ॥ ३१॥