________________
पाभ्युदयकाव्यं प्रातस्तना । “ सायं चिरं प्राहे प्रगेऽव्ययात् ” इति तनट् । निधुवनस्य रतस्य ग्लानिरायासः तथोक्तः । “ निधुवनं रतम्" इत्यमरः । प्रातस्तना चासौ निधुवनग्लानिश्चेति कर्मधारयः । ताम् ॥ उच्चैः परं हरन्ती मोचयन्ती ॥ प्रीतिं प्रमोदम् । “मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः ” इत्यमरः ॥ विधत्ते करोति । धनदस्य त्र्यम्बकसखत्वात् चैत्ररथनामबाह्योद्यानस्यातिरमणीयत्वेन क्रीडाहेतोरागतस्य शशिशेखरस्य चरमदिक्पालकस्य तत्र वसतिरुपपन्नैव । तल्लाञ्छनात्मकस्य चन्द्रस्य चन्द्रिकया कोकदम्पतीविरहादिरुच्यते ॥ २८॥
मत्तो मृत्यु समधिगतवान्यास्यसीष्टां गतिं तां ___ यस्मिन्काले विधुतसकलोपप्लवस्तं सुखेन । द्रष्टारोऽधोनियमितदृशो दिव्ययोषास्सतोषा
स्त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः ॥ २९ ॥ मत्त इति ॥ यस्मिन् काले समये ॥ त्वं भवान् । मत्तः मत्सकाशात् ॥ मृत्युं मरणम् ।। समधिगतवान् प्राप्तवान् ॥ विधुतसकलोपप्लवः विधुतो निराकृतः सकल उपप्लव उपद्रवो येन स तथोक्तः ।। सुखेन आनन्देन । “ शर्मशातसुखानि च " इत्यमरः ॥ इष्टाम् अभीष्टाम् । “ इष्टं क्षेमाशुभाभावे" इत्यमरः ॥ तां गतिम् उत्तरगतिम् ॥ यास्यसि प्राप्स्यसि । “या प्रापणे" लट् ॥ पवनपदवीं पवनस्य वायोः पदवीं मार्गम् आकाशम् “ पन्थानः पदवी मृतिः " इत्यमरः ॥ आरूढम् आक्रान्तम् ॥ त्वां भवन्तम् ॥ दिव्ययोषाः देवस्त्रियः । “ स्त्री योषिदबला योषा" इत्यमरः ॥ सतोषाः सन्तोषेण सहिताः ॥ उद्गृहीतालकान्ताः उद्धृतकुन्तलाग्राः । “ अलकाचूर्णकुन्तलाः " इत्यमरः ॥ अधोनियमितदृशः अधः अधोभागे नियमिते निश्चलीकृते दृशौ याभिस्ताः तथोक्ताः सत्यः द्रष्टारः । दृशेढुंद । प्रेक्षमाणाः भविष्यन्ति ॥ त्वां लब्धुमुत्सुका द्रक्ष्यन्तीत्यर्थः ॥ २९ ॥