________________
सटीकम् ।
२९ अप्सरोभिः देवस्त्रीभिः ॥ उच्चैः सुखं मुहासुखं ॥ अनुभवेः अनुभूयाः ॥ ततः तस्मात् कारणात् ॥ यक्षेश्वराणाम् धनदेन्द्राणाम् ॥ अलका नाम अलकेति प्रसिद्धा । अलकापुरीति “नाम प्राकाश्यसम्भाव्यत्रोधोपगमकुत्सने” इत्यमरः ॥ वसतिः स्थानम् । “वसती रात्रिवेश्मनोः” इत्यमरः ॥ तव ते ॥ गन्तव्या यातव्या त्वया प्रापणीयेत्यर्थः ॥ २७ ॥ यस्यां रात्रेरपि च विगमे दम्पतीनां विधत्ते
प्रीतिं प्रातस्तननिधुवनग्लानिमुच्चैहरन्ती । दृष्टा सास्रं सततविरहोत्कण्ठितैश्चक्रवाकै
बर्बाह्योद्यानस्थितहरशिरश्चन्द्रिका धौतहा ॥ २८ ॥७॥ यस्यामिति ॥ यस्यामलकायां पुर्याम् ॥ सततविरहोत्कण्ठितैः सततमनवरतं विरहेण वियोगेन उत्कण्ठितैः उत्कलितैः । “ सततानारताश्रान्तसन्तताऽविरताऽनिशम्"। "उत्कण्ठोत्कलिके समे" इत्युभयत्राप्यमरः । “ वियोगो मदनावस्था विरहो यल्लकं विदुः” इति धनञ्जयः ॥ चक्रवाकैः रथाङ्गपक्षिभिः । “कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः । ” इत्यमरः ॥ सास्रम् अश्रुपातेन सह । “रोदनं चास्रमश्रु च” इत्यमरः ॥ दृष्टा लक्षिता ॥ धौतहा धौतानि विमलीकृतानि हाणि यया सा तथोक्ता ।" हादि धनिनां वासः" इत्यमरः ॥ बाह्योद्यानस्थितहरशिरश्चन्द्रिका बहिर्भवं बाह्यं तच्च तदुद्यानं चेति कर्मधारयः । बाह्योद्याने तिष्ठति स्म बाह्योद्यानस्थितः स चासौ हरश्च तस्य ईशानदिगिन्द्रस्य शिरो मस्तकं तस्मिन् स्थिता चन्द्रिका ज्योत्स्ना । " चन्द्रिका कौमुदी ज्योत्स्ना" इत्यमरः ॥ रात्रेः निशायाः ॥ विगमेपि विरामेपि । किं पुना रात्रावित्यपि शब्दार्थः ॥ दम्पतीनां जायापतीनाम् । “ दम्पती जम्पती जायापती भार्यापती च तौ” इत्यमरः ॥ प्रातस्तननिधुवनग्लानिं प्रातर्भवा