________________
२८
पार्श्वभ्युदयकाव्यं याच इति ॥ देवं त्वाम् ॥ याचे प्रार्थये ॥ मदसिहतिभिः मम चन्द्रहासघातैः । “चन्द्रहासासिरिष्टयः” इत्यमरः। मृत्यु मरणम् ॥ प्राप्य गत्वा ॥ निकारात् तिरस्कारात् । “निकारो विप्रकारः स्यात् ” इत्यमरः ॥ मुक्तः त्यक्तस्सन् ॥ स्वर्गलोके देवलोके ॥ अप्सरोभिर्देवस्त्रीभिः सह । “ स्त्रियां बहुष्वप्सरसः ” इत्यमरः ॥ वीरश्रियं वीरलक्ष्मीम् ॥ अनुभवस्वर्गसुखं निर्विशेत्यर्थः । अथवा तव ते ॥ एवम् इति ॥ दाक्ष्यं समर्थता ॥ यदि न न भवति चेत् ॥ ततः तस्मात् ॥ धनपतिक्रोधविश्लेषितस्य धनपतेः कुबेरस्य क्रोधेन कोपेन विश्लेषितस्य वनितया वियोजितस्य ॥ मे मम ॥प्रेष्यतां भृत्यत्वम् । " नियोज्यकिङ्करप्रेष्यभुजिष्यपरिचारकाः ” इत्यमरः ॥ तूष्णीं जोषम् ॥ एत्य प्राप्य ॥ सन्देशं वार्ताम् ॥ हर नय । प्रियां प्रति प्रापयेत्यर्थः ॥ २६ ॥ आद्यः कल्पस्तव न सुकरो दुर्घटत्वान्न चान्त्यः
श्लाघ्यो दैन्यान्मुनिमत ततो मध्यकल्पाश्रयस्ते । श्रेयांस्तस्मिन्सुखमनुभवेरप्सरोभिस्तदुच्चै
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम् ॥ २७॥ प्राक् श्लोकत्रयेण विकल्पत्रयं प्रतिपाद्य तदेव क्रमेण विवृणोतिआद्य इति ॥ मुनिमत मुनिभि स्तुत ॥ तव ते ॥ आद्यः आदौ भवः आद्यः प्रथमः ॥ कल्पः विकल्पः । “ कल्पः स्यात्प्रलये न्याये शास्त्रे ब्रह्मदिने विधौ” इति विश्वः ॥ दुर्घटत्वात् दुःसाध्यत्वात् ॥ सुकरः सुखकार्यो न न भवति ॥ अन्त्यश्व चरमविकल्पश्च ॥ दैन्यात् दीनत्वात् । श्लाघ्यः पूज्यः न न भवति ॥ ततः तस्मात्कारणात् ॥ ते तव । “ ते मयावेकत्वे” इति युष्मदस्ते इत्यादेशः ॥ मध्यकल्पाश्रयः मध्यकल्पाश्रयणं । श्रेञ्यान् योग्यः । “ श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने" इत्यमरः ॥ तस्मिन् मध्यविकल्पे॥