________________
सटीकम् ।
२७
L
धनं हे सप्तभयविप्रयुक्त । " अभीक: कामुके क्रूरे कवौ च भयवर्जिते । ” इति विश्वः ॥ समरे रणे । “ अस्त्रियां समरानीकरणा: " इत्यमरः ॥ मां यक्षम् ॥ प्रहृत्य घातयित्वा । जेतुं जयनाय ॥ यदि च शक्तः त्वं समर्थोसि चेत् । " यत्तद्यतस्ततो हेतौ ” इत्यमरः ॥ इह अस्मिन् जगति ॥ राजयुध्वा राजानं योधितवानिति राजयुद्धा राजसहा “ कृञ्यादिभ्यामिति कनिप् । " कवौ युगे मृगाङ्के च शक्रे राजा विभाषित: " इत्यभिधानात् ॥ " यक्षयोधकः इत्य
""
66
मरः ॥ इति एवम् ॥ रूढिं प्रसिद्धिम् ॥ वहन् धरन् । सन्तप्तानां विरहसंज्वलितानाम् । सन्तापः सवरः समौ " इत्यमरः ॥ स्वर्गस्त्रीणां देवस्त्रीणाम् | अभयसुभगम् अभयेन त्वत्प्रापणधैर्येण सुभगं मनोरमं ॥ भावुकत्वं क्षेमत्वम् । “ भावुकं भविकं भव्यं कुशलं. क्षेममस्त्रियाम्" इत्यमरः ॥ निरस्यन् निराकुर्वन् || पयोदप्रियायाः पयोदस्य प्रिया तथोक्ता तस्याः पयोदनाम्नः स्वस्यासुरस्य कान्तायाः । " रमणी दयिता प्रिया " इति धनञ्जयः । पृथ्व्या महत्या || भक्त्या भजनं भक्तिः तया अनुरागेण ॥ चिरं बहुकालम् ॥ त्वं भवान् । शरणं रक्षकः । " शरणं गृहरक्षित्रोः " इत्यमरः । असि भवसि । मुनेर्जये मरणाभावादेव स्त्रीणामक्षेमता । यक्षस्य हतौ तप्रियाया मुनीन्द्रशरण्यता च भवतीति भावः ।। २५ ।।
याचे देवं मदसिहतिभिः प्राप्य मृत्युं निकारान्मुक्तो वीरश्रियमनुभवन्स्वर्गलोकेऽप्सरोभिः । नैवं दाक्ष्यं यदि तव ततः प्रेष्यतामेत्य तूष्णीं सन्देशं मे हर धनपतिको विश्लेषितस्य ॥ २६॥
१ यदि मां जेष्यसि ते मरणाभावात्स्वर्गस्त्रीवरत्वाभावाय मत्प्रियायाः शरणं भविष्यसीति । २ धनपतिक्रोधविश्लेषितस्येत्यत्र कुबेर कर्तृकक्रोधविरहितस्येत्यर्थकरणेन कुबेरप्रसादलब्धैश्वर्यसमृद्धस्य मे इत्यर्थोपि भासते ।