________________
२६
पार्श्वाभ्युदयकाव्यं
तस्माद्वीरप्रथमगणनामातुकामस्त्वकं चेत्पूर्वप्रीत्या सुभट सफलां प्रार्थनां मे विधत्स्व । कालाद्याचे परमपुरुषं त्वाभियायाद्ययुद्धं
याच्या मोघा वरमधिगुणे नाधमे लब्धकामा ॥ २४ ॥ ६ ॥
""
तस्मादिति ॥ तस्मात् कारणात् । परमपुरुषम् उत्कृष्टपुरुषं ।। त्वाभवंतम् । “ त्वामौ द्वितीयायाः” इति युष्मदस्त्वादेशः ।। कालात् कालवशात् ।। अभियाय अभिगम्य ॥ अद्य इदानीम् । " अद्यत्राह्नि इत्यमरः ।। युद्धं सङ्ग्रामम् ॥ याचे प्रार्थये ॥ सुभट हे महावीर ।। त्वकं त्वमेव त्वकं भवान् । वीरप्रथमगणनाम् वीरेषु शूरेषु प्रथमामाद्याम् गणनां सङ्ख्याम् || आप्नुकामः आप्तुमिच्छन् । चेत् यदि भवेः । " पक्षान्तरे चेद्यदि च इत्यमरः ॥ पूर्वप्रीत्या कमठमरुभूतिभव
""
ና
प्रेम्णा ॥ मे मम । ते मयावेकत्वे " इति अस्मदो मे इत्यादेशः ॥ प्रार्थनां याचनाम् ।। सफलां फलसहिताम् ॥ विधत्स्व कुरुष्व । "डुधाधारणे " च लेट् ॥ तथा हि । अधिगुणे अधिकगुणे पुरुषे ॥ याच्या प्रार्थना मोघा निरर्थकापि । “मोघं निरर्थकम् ” इत्यमरः ॥ -वरं सम्यक् । क्लीबं तु कुंकुमे श्रेष्ठे त्रिष्वेतेष्वव्ययं वरम् इति भास्करः ॥ अधमे निकृष्टे ॥ लब्धकामा प्राप्ताभिलाषापि । “ कामोSभिलाषस्तर्षश्च " इत्यमरः ॥ न वरं न सम्यक् ॥ २४ ॥
66
""
जेतुं शक्तो यदि च समरे मामभीक प्रहृत्य
स्वर्गस्त्रीणामभयसुभगं भावुकत्वं निरस्यन् । पृथ्व्या भक्त्या चिरमिह वहन् राजेयुद्धेतिरूढिं
सन्तप्तानां त्वमसि शरणं तत्पयोदप्रियायाः ॥ २५ ॥ जेतुमिति ॥ अभीक न विद्यते भीर्भयं र्यस्येत्यभीकः तस्य सम्बो१ लेडिति लोटः नामांतरं जैनेंद्रादिव्याकरणेषु । २ पाठान्तरे ' राजयोद्धा ।