________________
सटीकम् । इत्यमरः ॥ कामरूपम् इच्छादानविग्रहम् । “ इच्छामनोभवौ कामौ” इत्यमरः । दुर्गादिसञ्चारक्षममित्यर्थः ॥ प्रकृतिपुरुषं प्रधानपुरुषम् । “ प्रकृतिः सहजे योनावमात्ये परमात्मनि” इति विश्वः॥ जानामि मन्ये ॥ २२ ॥ .. येनाऽमुष्मिन्भवजलनिधौ पर्यटन्नैकधा मां __ रूयर्थेख्यर्थे परिभवपदं प्रापिपस्त्वं प्रमत्तम् । कृच्छ्राल्लब्धे पुनरिति चिराद्वैरनिर्यातनायां
तेनाऽर्थित्वं त्वयि विधिवशाह्रबन्धुर्गतोऽहम् ॥ २३ ॥
येनेति ॥येन कारणेन॥अमुष्मिन् भवजलनिधौ जलानि निधीयन्तेऽस्मिन्निति जलनिधिः। भवः संसारः "भावोभवश्च संसारः सरण्यं चैव संमृतिः” इति धनञ्जयः । स एव जलनिधिस्तस्मिन् ॥ पर्यटन भ्रमन्॥ त्रं भवान् ॥ ख्यर्थेख्यर्थे । आभीक्ष्ण्ये द्विः। स्त्रीनिमित्तम्॥ प्रमत्तं प्रमाद्यति स्म प्रमत्तः तं प्रमादवन्तम्॥ मां कमठचरम् ।। नैकधा अनेकप्रकारेण । न एकधा अनेकधेत्यलुक्समासः ॥ परिभवपदं परिभवस्य पदं तथोक्तम् । तत् तिरस्कृतिस्थानम् । “पदं व्यवसितत्राणस्थानलक्ष्माझिवस्तुषु” इत्यमरः ॥ प्रापिपः प्रापयसि स्म । " आप व्याप्तौ” इति धातोः सनि लङ् ॥ तेन कारणेन ॥ पुनः चिरात् बहुकालात् । इति एवम् । कृच्छ्रात् कष्टात् । " स्यात्कष्टं कृच्छ्रमाभीलम् ” इत्यमरः ॥ लब्धे प्राप्ते ॥ त्वयि भवति ॥ विधिवशात् कर्मवशात् । “ नियतिर्विधिः” इत्यमरः ॥ दूरबन्धुः दूरो विप्रकृष्टो बन्धुर्बान्धवो यस्येति बहुव्रीहिः । वियुक्तस्वजन इत्यर्थः । " बन्धुः स्वस्वजनाः समाः " इत्यमरः ॥ अहम् वैरनिर्यातनायां वैरविशुद्धिनिमित्तम् । “ वैरशुद्धिः प्रतीकारो वैरनिर्यातनं च सा" इत्यमरः ।। अर्थित्वं याचकत्वम् । गतः प्राप्तोस्मि ॥ २३ ॥