________________
२४ . पार्श्वभ्युदयकाव्यं लामलम्” इति धनञ्जयः ॥ उग्रनाम्नाम् उग्रवंशाभिधानानाम् ।। भूभृतां राज्ञाम् ॥ बहुगुणे औदार्यादिबहुलगुणयुक्ते ॥ भुवनविदिते त्रिजगद्विख्याते॥वंशे गोत्रे ॥ जातम् उत्पन्नम् ॥ ऊर्द्धचं ऊर्द्ध जानुनी यस्येति ऊर्ध्व स्तम् ऊर्ध्वजानुम् । “वोर्ध्वात्" इति जानुनो जुज्ञावादेशौ । “ऊर्ध्वज़ुरूर्द्धजानुः स्यात्" इत्यमरः । कायोत्सर्गस्थितमित्यर्थः ॥ तं मुनि पार्श्वयतीन्द्रम् ॥ नमयितुं नम्रीकर्तु ॥ नाशकत् न शक्नोति स्म । तद्ध्यानवृत्तिं चलयितुं समर्थो नाभवदिति तात्पर्यम् ॥ २१ ॥ भूयः क्षोभं गमयितुमनाः स्वान्तवृत्तिं मुनीन्दो
वाचाटत्वं प्रचिकटयिषु/रमेवं जजृम्भे।। भोभो वीर स्फुटमिति भवान् मय्यगादल्पमृत्यु - जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ॥ २२ ॥
भूय इति ॥ भूयः पुनः ॥ मुनीन्दोः इन्दुरिव इन्दुः मुनीनामिन्दुः तस्य मुनिचन्द्रस्येत्यर्थः ॥ स्वान्तवृत्तिं चित्तवर्तनम् । “वृत्तिर्वर्त्तनजीवने” इत्यमरः ॥ क्षोभं सञ्चलम् ॥गमयितुमनाःप्रापयितुमिच्छन्। " तुमो मनस्कामः” इति तुमो मकारस्य लोपः ॥ वाचाटत्वं बहुगर्यवाक्त्वम् । “ वागालाटौ” इत्याटत्यः। “स्याजल्पाकस्तु वाचालो वाचाटो बहुगर्यवाक् ” इत्यमरः ॥ प्रचिकटयिषुः प्रकटयितुमिच्छुः। "सभिक्षाशंस्विन्द्विच्छादुः " इत्युत्यः ॥ एवं वक्ष्यमाणप्रकारेण ।। धीरं धीरत्वम् यथा तथा जजृम्भे जृम्भसि स्म बभाणेत्यर्थः । " जूंभूङ् गात्रविनामे" लिट् ॥ भोभो वीर हेहे शूर ॥ भवान् त्वम् ॥ मयि कमठचरे ॥ अल्पमृत्युम् अल्पश्चासौ मृत्युश्च तम् ।। स्फुटं व्यक्तम् । “ स्फुटं प्रव्यक्तमुल्बणम्” इत्यमरः ॥ अगात् । " इणु गतौ” इति धातोः लुङि गैत्योरिगादेशः। अगमदित्यर्थः ।। इति एवम् ॥ त्वां मुनिम् । मघोनः इन्द्रस्य । “इन्द्रो मरुत्वान्मघवा"