________________
सटीकम् ।
२३ आत्मधैर्यात् स्वमनोबलात् । “ धैर्य शौर्य च पौरुषम् ” इति धनजयः॥ न प्रस्खलेः न चलेः॥ तथा हि । कामार्ता हि वांछितार्थपीडिता हि ॥ चेतनाचेतनेषु चेतनाश्चाचेतनाश्च चेतनाचेतना इति द्वन्द्वः । तेषु चिदचिद्रूपपदार्थेषु । प्रकृतिकृपणाः स्वभावदीनाः । “स्वभावः प्रकृतिः शीलं निसर्गो विस्रसानिजम् ।” “कीनाशः कृपणो लुब्धो गृध्रुर्दीनोऽभिलाषुकः।” इत्युभयत्रापि धनञ्जयः॥ हि स्फुटम् । " हि हेताववधारणे " इत्यमरः ॥ कामार्तानामेव जलदसमये चेतनाचेतनद्रव्येषु दैन्यं गमिते कामादेरिति तात्पर्यम् ॥ २० ॥ ऊर्ध्वजुं तं मुनिमतिघनैः कालमेघैः प्रयुक्तो
धारासारो भुवि नमयितुं नाशकदुःसहोऽपि । जात्याश्वानामिव बहुगुणे भूभृतामुग्रनाम्नां
जातं वंशे भुवनविदिते पुष्कलावर्तकानाम् ॥ २१ ॥ ऊर्ध्वमिति ॥ अतिघनैः परमसान्द्रैः । “ घनं निरन्तरं सान्द्रम्" "प्रकर्षे लङ्घनेप्यति" इत्युभयत्राप्यमरः॥ कालमेघैः कृष्णघनैः। प्रयुक्तः विहितः । धारासारः धाराणामासारस्तथोक्तः । प्रकृष्टवृष्टिरित्यर्थः । “धाराम्बुताने चोत्कर्षो” “आसारो वेगवद्वर्षम् ” इत्युभयत्राप्यमरः ॥ भुवि भुवने ॥ दुःसहोपि सोढुमशक्तोपि ॥ पुष्कलावर्तकानां पुष्कलः शुद्धः आवर्तो येषां तेषां देवमण्यादियोग्यावर्तकानाम् ॥ जात्याश्वानां जातौ भवाः जात्याः । “जातः कुलजकान्तयोः” इत्यमरः । जात्याश्च ते अश्वाश्च जात्याश्वास्तेषाम् ॥ भुवनविदिते लोकप्रसिद्ध विशिष्टे वा । " बुद्धं बुधितं विदितं मनितं प्रतिपन्नमवगतावसितम्" इत्यमरः ॥ बहुगुणे बहवो गुणा अश्वयोग्या यस्मिन् तस्मिन् ॥ वंशे अन्वये । “ वंशोऽन्ववायः सन्तानः ” इत्यमरः ॥ जातमिव सम्भूतमिव विशिष्टवाजिनमिवेत्यर्थः ॥ पुष्कलावर्तकानां पुष्कलः विशुद्धः आवर्तः लक्षणविशेषो येषां तेषाम् ॥"विशदे पुष्क