________________
२२
पार्श्वभ्युदयकाव्यं भावः औद्धत्यं मतेरौद्धत्यं तस्मात् । बुद्ध्यहङ्कारादित्यर्थः ॥ “सोन्मादस्तून्मदिष्णुः स्यादविनीतः समुद्धतः” इत्यमरः ॥ स्वयम् आत्मा ।। वारिवाहच्छलेन मेघव्याजेन । “ व्यपदेशं निभं व्याजं पदं व्यतिकर छलम् । छद्म” इति धनञ्जयः॥ मायायुद्धं मायारूपं विग्रहम्॥ उपवहन् धरन् ॥ औत्सुक्यात् औत्सुकस्य भावः औत्सुक्यं तस्मात् स्खेष्टारतत्वात् । “ इष्टार्थोयुक्त उत्सुकः ” इत्यमरः ॥ अयं मुनिः । उपमाक्षीणकः तुलारहितः ॥ दुर्जयः दुःसाध्यः ॥ इति एवम् ॥ अपरिगणयन् अविचारयन् ॥ गुह्यकः कमठचरः । “गुह्यकः सिद्धो भूतः ” इत्यमरः ॥ तं मुनिपं ययाचे याचति स्म ॥ १९ ॥ . जाता रम्या सपदि विरलैरिन्द्रगोपैस्तदा भूः
सेव्याः केकिध्वनितमुखरा भूभृतां कुञ्जदेशाः। योगिस्तस्मिञ्जलदसमये प्रस्खले त्मधैर्यात्
कामात हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ २०॥५॥ जातेति ॥ तदा तद्याचनसमये ॥ भूः भूमिः ॥ विरलैः पेलवैः । " पेलवं विरलं तनु" इत्यमरः ॥ इन्द्रगोपैः रक्तवर्णकृमिविशेषैः ॥ सपदि सद्यः । “सद्यः सपदि तत्क्षणे” इत्यमरः ॥ रम्या मनोहरा। “ रम्यं सौम्यं च सुन्दरम्” इति धनञ्जयः ॥ जाता जायते स्म ।“ भूभृद्भूमिधरे नृपे” इत्यमरः ॥ कुञ्जदेशाः निकुञ्जप्रदेशाः । “निकुञ्जकुजौ वा क्लीबे लतादिपिहितोदरे” इत्यमरः ॥ केकिध्वनितमुखराः केकिनां मयूराणां ध्वनितेन ध्वनिना मुखराः शब्दयुताः। " दुर्मुखे मुखराबद्धमुखौ” इत्यमरः ॥ सेव्याः सेवितुं योग्याः ॥ जाताः जायन्ते स्म । अर्थवशाद्विभत्तया विपरिणाम इत्युभयत्राप्यन्वयः ॥ योगिन् भो मुने त्वं तस्मिन् जलदसमये तादृशे वर्षाकाले ॥
१ द्विकर्मकोयं प्रयोगः दुरात्मायं भगवन्तं दुर्जेयमित्यनालोचयन्युदधाय एही. ति प्रार्थयामासेति भावः।