________________
टीकम् ।
२१
सुरपशुश्च तथोक्तः क ॥ क अद्रिराट् अद्रीणां राट् तथोक्तः " राज्ञि राद् ” इत्यमरः । अगेन्द्रः ।। क्व उपलौघः उपलानामश्मनामोघः समूहस्तथोक्तः । “ पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् ” इति " स्तोमौघनिकरव्रातवारसङ्घातसभ्वयाः " इति चामरः ॥ क्क अस्य कमठचरस्य ॥ उद्योगो व्यापारः ॥ क 'नु' दुर्विभेदाः भेत्तुमशक्याः ॥ मुनिगुणाः योगिंगुणाः । क "नु पृच्छायां वितर्के च" इत्यमरः ॥ मूक: अज्ञः । वक्तुं श्रोतुमशिक्षित इत्यर्थ: । “ मुग्धो मूढो जडोऽनेडो मूको मूर्खश्च कद्वदः " इति धनञ्जयः ॥ क्व पटुकरणैः पटूनि स्फुटानि करणानीन्द्रियाणि येषां तैः विशदेन्द्रियैरित्यर्थः । “करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि ” । “दक्षामंदागदेषु च । पटु वाच्यलिङ्गौ च" इत्युभयत्राप्यमरः । प्राणिभिः प्राणाः सन्ति येषां तैर्जीवैः । " प्राणी तु चेतनो जन्मी " इत्यमरः ॥ प्रापणीयाः प्रापयितव्याः । " आफ्नु प्राप्तौ ” इति धातोस्तव्यानीयत्यः ॥ सन्देशार्थाः सन्दिश्यन्त इति सन्देशाः । " सन्देशः प्रिययोर्वार्ता " इति धनञ्जयः । तेषाम् अर्थास्ते क ॥। १८ ॥
सत्यप्येवं परिभवपथे योजयन्स्वं दुरात्मा मत्यौद्धत्यात्स्वयमुपवहन्वारिवाहच्छलेन । मायायुद्धं मुनिपमुपमाक्षीणको दुर्जयोऽयमित्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे ॥ १९॥
66
सत्यप्येवमिति । एवं सत्यपि ॥ दुरात्मा दुष्टस्वरूपः कमठः ॥ स्वम् आत्मानम् ॥ परिभवपथे परिभवस्यानादरस्य पन्थाः मार्गस्तथोक्तस्तस्मिन् । “ ऋक्पूःपथ्यपात् ” इति अत्यः । अनादरः परिभवः परीभावस्तिरस्क्रिया " इत्यमरः ॥ योजयन् योजयतीति योजयन् । युजृन् योगे ” इति शतृत्यः । सम्बन्धयन् । मत्यौद्धत्यात् उद्धतस्य
१ शमदमादयः ।