________________
पार्श्वभ्युदयकाव्यं क्वासद्ध्यानं चिरपरिचितध्येयमाकालिकोऽसौ
धूमज्योतिः सलिलमरुतां सन्निपातः क मेघः ॥ १७ ॥ कायमिति ॥ भुवनमहितः भुवनेन लोकेन मह्यते स्म भुवनमहितः । त्रिलोकपूजित इत्यर्थः ॥ दुर्विलक्ष्यस्वशक्तिः दुर्विलच्या अनिवार्या स्वशक्तिर्यस्येति बहुपदो बहुव्रीहिः ॥ अयं योगी एष मुनिः ।। क कुत्र ॥ क्षुद्रः नीचः ॥ असौ कमठदनुजः अयं कमठचरदैत्यः । क इभराजः गजेन्द्रः । क दंशः दशनामा जन्तुः । “ दंशस्तु वनमक्षिका” इत्यमरः ॥ क असत् अशुभम् ध्यानं ॥क चिरपरिचितध्येयं चिरात् परिचितमभ्यस्तं ध्येयं ध्यातव्यं वस्तु यस्य तत् चिरेणाभ्यस्तविषयमित्यर्थः । ध्यानं शुभध्यानम् क ॥ आकालिकः अकाले भवः आकालिकः अनवसरजः ॥ धूमज्योतिः सलिलमरुतां धूमश्च ज्योतिश्च सलिलं च मरुञ्च “ज्योतिः खद्योतदृष्टिषु" इत्यमरः । तेषां सन्निपातः सङ्घातः॥ असौ मेघः कालमेघः क ॥ १७ ॥ कायं देवो विलसदणिमाद्यष्टभेदस्थितधिः
काल्पर्धित्वाद्गुरुसुरपशुः काद्रिराट् कोपलौघः। क्वास्योद्योगः क नु मुनिगुणा दुर्विभेदाः क मूकः
संदेशार्थाः क पटुकरणैः प्राणिभिः प्रापणीयाः ॥ १८ ॥ कायं देव इति ॥ विलसदणिमाद्यष्टभेदस्थितर्द्धिः अणोर्भावः अणिमा । “ पृथ्व्यादेरिमन् ” इतीमन्त्यः । अणिमा आदिर्येषां ते तथोक्ताः । विलसन्तश्च ते आणिमादयश्चेति कर्मधारयः । अष्ट च ते भेदाश्चाष्टभेदाः । विलसदणिमादयश्च ते अष्टभेदाश्च तथोक्तास्तैः । स्थिता नित्यतया वसन्त्यः ऋद्धयः तपःप्रभावोद्भूतगुणाः यस्येति बहुपदो बहुव्रीहिः ॥ अयं देवः स्वामी क ॥ अल्पर्धित्वात् स्तोकैश्वर्यत्वात् ॥ गुरुसुरपशुः सुरः पशुरिवेति सुरपशुः गुरुमहांश्वासौ