________________
सटीकम् ।
पर्जन्यानां ध्वनिमनु सकः स्फावयन् सिंहनादानाक्रोशैः स्वैर्मुनिपरिसरात्तर्जयन्नाशदैत्यः । हा धिग्मूढं भगवति मुनौ पूर्वबन्धौ न चोच्चैः
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ १६ ॥ ४ ॥
१९
पर्जन्यानामिति ॥ सकः कुत्सितः सः सकः कमठचरः । नाशदैत्यः नाशेन प्रेरितो दैत्यः तथोक्तः । “ पृषोदरादित्वात्समासः " आत्मनाशार्होऽसुरः ॥ मुनिपरिसरात् समीपभूमेः । " पर्यन्तभूः परिसरः " इत्यमरः ॥ पर्जन्यानां मेघानाम् । “ पर्जन्यौ रसदब्दे - न्द्रौ इत्यमरः ॥ ध्वनिमनु ध्वनिप्रतिभागिनि च । " प्रतिपर्य
1
""
66
नुभिः ” इति द्वितीया ॥ सिंहनादान् सिंहध्वनीन् ॥ स्फावयन् वर्धयन् । स्फावयतीति स्फावयन् । स्फायैङ् वृद्धौ " इति धातोः । “कथातिपातिस्फायो ग्ललावमीति" वमागमः । शतृत्यः।।स्वैः स्वकीयैः॥ आक्रोशैः शपनध्वनिभिः ॥ तर्जयन् तर्जयतीति तर्जयन् भर्त्सयन्नित्यर्थः ॥ पूर्वबन्धौ पूर्वभवानुजे || भगवति माहात्म्यवति । “ भगः श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु ” इत्यमरः ॥ मुनौ योगिनि ॥ उच्चैः अधिकम् ॥ प्रीतः सन्तुष्टः सन् ।। प्रीतिप्रमुखवचनं प्रीतिमुखाणि प्रीतिपूर्वाणि वचनानि यस्मिन् तत् प्रीतिप्रमुखवचनं यथा भवति तथा || स्वागतं शोभनमागतं स्वागतं क्षेमागमनम् ॥ न व्याजहार न ब्रवीति स्म । व्याङ्पूर्वस्य हृञो धातोर्लिट् ॥ मूढं मूर्खम् त्वाम् ॥ हा धिक् । प्राग्भवबन्धोः स्वामिनो दर्शने प्रीत्या कुशलोदन्तं न पत्रच्छ किन्तु सिंहनादप्रभृति तर्जनमेव चकारेति भावः ॥ १६ ॥
hari योगी भुवनमहितो दुर्विलङ्घयस्वशक्तिः कासौ क्षुद्रः कमठदनुजः क्केभराजः क्व दंशः । १ क्व इति महदन्तरे ।