________________
१८
पार्थाभ्युदयकाव्यं एवं प्रायां निकृतिमधमः कर्तुमारब्धभूयो ___ मायाशीलश्चिरपरिचिताद्वैरबन्धात्प्रकुप्यन् । सिद्धस्तन्निष्क्रमणसमये योगिने भक्तिनः __स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै ॥ १५॥
एवमित्यादि । भूयः पुनः॥ चिरपरिचितात् चिरं बहुकालं परिचित्यते स्मेति परिचितः तस्मात् । बहुकालमभ्यस्तात् ॥ वैरबन्धात् विरोधानुबन्धात् ॥ प्रकुप्यन् प्रकोपितः सन् ॥ मायाशील: मायया कपटेन युक्तं शीलं स्वभावो यस्य सः। “ शीलं स्वभावे सद्वत्ते” इत्यमरः ॥ अधमः निकृष्टः । “ निकृष्ट प्रतिकृष्टावरेफयाप्यावमाधमाः ” इत्यमरः ॥ सः कमठः ॥ तनिष्क्रमणसमये तस्य मुनेः निष्क्रमणस्य परिनिष्क्रमणस्य समये काले । “ कालो दिष्टोप्यनेहापि समयोपि” इत्यमरः ॥ भक्तिनः नमन्तीत्येवं शीला नम्राः भक्त्या गुणानुरागेण नम्रास्तैः ॥ सिद्धैः देवविशेषैः । “पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः” इत्यमरः ॥ प्रत्यौः नवैः । " प्रत्यग्रोऽभिनवो नव्यः ” इत्यमरः ॥ कुटजकुसुमैः कुटजानां वनमल्लिकानां कुसुमैः पुष्पैः । “ कुटजो वनमल्लिका” इति हलायुधः।। कल्पितार्घाय कल्प्यते स्म कल्पितः अर्घः पूजाविधिर्यस्य तस्मै । “ मूल्ये पूजाविधावर्षः” इत्यमरः ॥ तस्मै योगिने पार्श्वमुनये ।। एवं वक्ष्यमाणरीत्या ॥ प्रायां बहुलाम् । “ प्रायो बहुत्वे मृत्यौ च तुल्यानशनयोरपि " इत्यभिधानात् । “ प्रायो भूयन्तगमने" इत्यमरयान्तपाठाच्चानव्ययोऽयं शब्दः ॥ निकृति निराकृतिम् । " कुसृतिनिकृतिः शाठ्यम्” इत्यमरः । “ निकृतिर्भर्त्सने क्षेपे वदन्ति शठशाठ्ययोः” इति विश्वः ॥ कर्तु विधातुम् ॥ आरब्ध प्रारेभे । " रभि राभस्ये " लुङात्मनेपदम् ॥ १५ ॥