________________
सटीकम् । कालेनासौ किल जलभृतां योगिनं तं वितीत्वं
जीमूतेन खकुशलमयीं हारयिष्यन्प्रवृत्तिम् ॥ १४ ॥ विद्युन्मालेत्यादि । विद्युन्मालास्फुरितरुचिरे विद्युतां सौदामनीनां । " तडित्सौदामनी विद्युत् ” इत्यमरः । माला पतिः । “ माला पतिः पुष्पादिदामनि ” इति भास्करः । तस्याः स्फुरितेन प्रकाशन रुचिरं मनोहरं यस्य तस्मिन् । “सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्" इत्यमरः॥ स्फूर्जद्वजे स्फूर्जत् निर्घोषत् वज्रमशनिर्यस्य तस्मिन् । “ वज्रोऽस्त्री हीरके पवौ” इत्यमरः ॥ मेघजाते मेघानां जातं समूहस्तस्मिन् । “उत्पन्नभूतयोर्जातं वृन्दजात्योस्तु न द्वयोः" इत्यनेकार्थरत्नमाला ॥ नताशे नता व्याप्ता आशा दिशो येन तस्मिन्सति । "आशाश्व हरितश्च ताः ” इत्यमरः ॥ असौ कमठः ॥ कालेन कृष्णेन । " कालश्यामलमेचकाः” इत्यमरः ॥ जीमूतेन मेघेन । “ जीमूतौ मेघपर्वतौ” इत्यमरः ॥ तं मुनिम् ॥ जलभृतां बलाहकानाम् ॥ योगिनं संसर्गिणम्। “योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु” इत्यमरः॥ वितन्वन् वितनोतीति वितन्वन् । तनोतेः शतृत्यः॥स्वकुशलमयीं स्वस्य कुशलमयीम् पुण्यमयीम्। “कुशलं क्षेममस्त्रियाम् ” इत्यमरः ॥ प्रवृत्तिं प्रवर्तनम् । प्रवृत्तिं प्रकृष्टां वृत्तिमित्यर्थः । “वृत्तिर्वर्तनजीवने" इत्यमरः । अथवा प्रवृत्तिं वृत्तान्तम् । " वार्ता प्रवृत्तिवृत्तान्त उदन्तः स्यात् ” इत्यमरः । “ वृतूर्डि वर्तने" स्त्रियां क्तिन् त्यः ॥ हारयिष्यन् हारयिष्यतीति हारयिष्यन् । " द्विहरतेर्धातोस्तासौ लुल्गेरिति स्यत्यः । ” “ वलादेः” इतीट् । " संल्लड़यल्लूटौ” इति शतृत्यः । नाशयिष्यन् । उपसर्गविधानादिति यावत् ॥ वृष्टिपातं वर्षपतनम् ॥ झटिति शीघ्रम् । “लाग्झटित्य जसाह्नाय " इत्यमरः ॥ ससर्ज निर्मिमीते स्म । “सृज विसर्गे ।” लिट् ॥ किल वार्तायाम् । “ वार्तासम्भाव्ययोः किल" इत्यमरः ॥ १४ ॥