________________
पार्श्वभ्युदयकाव्यं इत्युक्तेत्यादि ॥ इति प्रतिपादितप्रकारेण । “इति हेतुप्रकरणप्रकाशादिसमाप्तिषु” इत्यमरः॥ मुहुः पुनः ॥ अदः अदसो नपुंसकलिङ्गद्वितीयैकवचनम् । एतदुच्यमानस्वरूपम्॥ उपवहन धरन् ॥निश्चितात्मोपसर्गः आत्मना क्रियमाण उपसर्गः आत्मोपसर्गः निश्चितः आत्मोपसर्गो येन स तथोक्तः । “अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम्” इत्यमरः। बद्धक्रोधः बद्धः क्रोधो येन सः कृतक्रोधः । असौ दैत्यः ॥ सरभसं रभसेन सह वर्तते यस्मिन्कर्मणि तथोक्तं सहर्षम् । सशीघ्रं वा “ रभसो वेगहर्षयोः" इत्यमरः ॥ मुनिपं यमीश्वरम् ॥ अभितः सर्वतः। “ हाधिक्समया-” इत्यादिना द्वितीया ॥ भीमजीमूतमायां भीमश्चासौ जीमूतश्च । " घोरं भीमं भवानकम् ” इत्यमरः ॥ "जीमूतोऽभ्रं बलाहकः” इति धनञ्जयः। तस्य मायां कल्पनाम् ॥ स्राक् रभसेन । “लाग्झटित्यञ्जसाह्नाय द्राङ् मङ्क सपदि द्रुते” इत्यमरः ॥ अस्राक्षीत् सृष्टिमकरोत् । मृज विसर्गे । लुङ् ॥ अत्र समर्थनमाह । नभसि श्रावणमासे । “ नभाः श्रावणिकश्च सः ” इत्यमरः ॥ प्रत्यासन्ने सन्निकृष्टे । “ समीपे निकटासन्नसन्निकृष्टसनीडवत् ” इत्यमरः ॥ दयिताजीवितालम्बनार्थी दयितायाः प्रियायाः जीवितं जीवनं तस्यालम्बनम् आधारः तदर्थत इत्येवंशील: तथोक्तः । “ रमणी दयिता प्रिया " इति धनञ्जयः । विमुक्तकान्ताजीवनोपायाऽभिलाषी ॥ मनागपि ईषदपि । “ किञ्चिदीषन्मनागल्पे " इत्यमरः ।। असूरिः न सूरिः असूरिः अपण्डितः । " पण्डितः सूरिराचार्यः” इति धनञ्जयः ॥ नो न भवति । " अभावे नह्य नो नापि " इत्यमरः । नभसो मासस्य विरहदुःखोद्रेकहेतुत्वात्स्वाभिप्रेतसिद्धये शीतको न भवेदिति तात्पर्यम् ॥ १३ ॥ विद्युन्मालास्फुरितरुचिरे मेघजाते नताशे
स्फूर्जद्वजे झटिति कमठो वृष्टिपातं ससर्ज ।