________________
सटीकम् ।
१५
"
"
चिन्तयन् ।। निष्ठुरालापशौण्ड: निष्ठुरश्चासौ आलापश्च निष्ठुरालापस्तस्मिन् शौण्डः मत्तः । “ मत्ते शौण्डोत्कटक्षीबा: " इत्यमरः । कठोरवचनपर इत्यर्थः ॥ मुनिपं पार्श्वनाथम् ॥ अभणीत् अवोचत् ॥ भोभो भिक्षो ! हे मुने ! । “ भृशाभीक्ष्णाविच्छेदे प्राक् द्विः " इति भोशब्दस्य द्विःप्रयोगः । “ अथ सम्बोधनार्थकाः । स्युः प्याद् पाडङ्ग हे है भोः” इति । “भिक्षुः परिव्राट् ” इति चामरः । अथवा भोभो इत्येकं पदम् । “ अङ्गेत्यामन्त्रणे हेहे भोभो इति च कथ्यते " इति हलायुधः ॥ स्वान्तं चित्तम् ॥ अन्तर्निरुन्धन् अन्तर्दधानः ॥ भवान् पूज्यस्त्वम् || भणतु जल्पतु । ब्रूहीत्यर्थः । भवच्छब्दप्रयोगे प्रथमपुरुष • इति वचनात् । " सिषिधुषिसिषाथेतिसिषिधिवन् । ” “लिटः क्कसुः क्कस उस् इति उस् । तस्मिन् सिद्धे ॥ क्षीणक्लेशे । क्षीणो नष्टः क्षि क्षये " इति धातोः क्तः भूत्वादेरिः " इति तस्य नः । " क्षेरीतीकारः । " क्षीणः क्लेशो यस्य तस्मिन् ॥ अङ्गितत्वे अङ्गमस्यास्तीत्यङ्गी जीवः स एव लत्वं पदार्थस्तस्मिन् आत्मद्रव्य इत्यर्थः॥ मतिं बुद्धिं ॥ किं निधत्ते किमर्थं निदधासीति प्रश्नः । अत्रातरन्यासः ॥ जने बंधुलोके कण्ठाश्लेषप्रणयिनि ग्रीवालिंगनार्थिनि सति ।। पुनः पश्चादपि " पुनरप्रथमे भेदे " इत्यमरः ॥ दूरसंस्थे दूरे विप्रकृष्टप्रदेशे संस्था स्थितिर्यस्य तस्मिन् वस्तुनि " संस्थाचारे स्थितौ मृतौ” इत्यभिधानात् ॥ किं किमर्थमभिलषणमिति जुगुप्सा । " किं पृच्छायां जुगुप्सने " इत्यमरः । “उक्तसिद्ध्यर्थमन्यार्थ न्यासोऽन्यापुरःसरम् । कथ्यतेऽर्थान्तरन्यासः " इति वाग्भटः ।। १२ ।।
66
66
इत्युक्तादो मुहुरुपवहन्निश्चितात्मोपसर्गोऽ
बद्धक्रोधः सरभसमसौ भीमजीमूतमायाम् । स्रागस्राक्षीन्मुनिपमभितो नो मनागप्यसूरिः
प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी ॥ १३ ॥