________________
पार्श्वाभ्युदयकाव्यं
पश्चाच्चैनं प्रचलितधृतिं ही हनिष्यामि चित्रं मेघालोके भवति सुखिनोप्यन्यथावृत्ति चेतः ॥ ११ ॥
१४
(C
मेघैरित्यादि ।। तावत् प्रथमतः । यावत्तावच्च साकल्येवधौ मानेऽवधारणे ” स्तनितमुखरैः स्तनितेन गर्जितेन मुखरैर्वाचाटैः । “ स्तनितं गर्जितं मेघनिर्घोषे " इति । दुर्मुखे मुखराबद्धमुखौ " इति चामरः ।। द्विरदसदृशैः गजसमानैः ॥ मेघैः जलदैः ॥ अस्य मुनेः ॥ चित्तक्षोभान् स्वान्तवेपथून् । कुर्वे करोमि । पश्चाच्च तदनन्तरम् । " प्रतीच्यां चरमे पश्चात् " इत्यमरः ॥ एनं मुनिम् । प्रचलित वृतिं प्रचलिता प्रकम्पिता धृतिः धैर्य यस्य सः तम् । . 66 चलितं कम्पितं ते । धृतिर्धारणधैर्ययोः " इत्युभयत्राप्यमरः ॥ निकुर्वन् निकरोतीति निकुर्वन् निराकुर्वन्नित्यर्थः । चित्रम् अद्भुतं यथा भवति तथा । ही दुःखहेतवो " ही दुःखहेतावुद्दिष्टो ही विस्मयविषादयोः” इति विश्वः । हनिष्यामि घातयिष्यामि ।। अत्र समर्थनमाह । मेघालोके वारिवाहदर्शने सुखिनोपि मित्रजनसङ्गतस्यापि । किं पुनरेकाकिन इत्यपिशब्दार्थः ।। चेतः हृदयम् । चित्तं तु चेतो हृदयम् ' "" इत्यमरः । अन्यथावृत्ति अन्येन प्रकारेणान्यथा अन्यथाभूता वृत्तिर्वर्त्तनं यस्य तत् अन्यथावृत्ति । वृत्तिर्वर्त्तनजीवने " इत्यमरः ॥ भवति जायते । प्रमाद्यत इत्यर्थः ॥ ११ ॥
८८
"C
ध्यायन्नेवं मुनिपमभणीन्निष्ठुरालापशौण्डो
भोभो भिक्षो भणतु स भवान्सान्तमन्तर्निरुन्धन् । क्षीणक्लेशे सिषिधुषि मतिं किं निधत्तेङ्गितत्वे कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ १२ ॥ ३॥
ध्यायन्नित्यादि । एवं कथितरीत्या ॥ ध्यायन् ध्यायतीति ध्यायन् १ वै इत्यपि पाठः.