________________
२१४
पार्श्वाभ्युदयकाव्यं
मिव समयमिव । नीता यापिता । तामेव तद्रात्रिमेव । विरहमहतीं विरहेण पृथुभूताम् । महत्त्वेन प्रतीयमानामित्यर्थः । निद्राद्विभिः निद्राविरोधिभिः । मुहुः पुनः पुनः । उपचितैः अवतीर्णैः । पक्ष्मरुद्भिः पक्ष्मरोधयद्भिः । " पक्ष्माक्षिरोम्णि किञ्जल्के तत्त्वाद्यंशेप्यणीयसि ” इत्यमरः । गलद्भिः स्रवद्भिः । उष्णैः अशिशिरैः । अश्रुभिः अस्त्रैः । “ नेत्राम्बुरोद्ने चास्रमश्रु च इत्यमरः । यापयन्तीं गमयन्तीम् । “ यातेर्ण्यन्ताच्छतृत्यः " " हीब्लीरिक्नायि " इत्यादिनाप् । तां पश्येत्यन्वयः । स एव कालः सुखिनामल्पः प्रतीयते दुःखिनां तु विपरीत इति भावः । एतेन लज्जात्यागो व्यज्यते ||४५||
""
अन्तस्तापमिति ।। स्वं स्वकीयम् । अन्तस्तापम् अन्तर्गतं विरहता - पम् । प्रपिशुनयता प्रकर्षेण सूचयता । कवोष्णेन मन्दोष्णेन । " कोष्णं कवोष्णं मन्दोष्णम् " इत्यमरः । अधरकिसलया क्लेशिना दशनच्छदपल्लवनिबाधिना । भूयः मुहुः । निश्वासेन निश्वसनेन । तन्मुखेन्दोः तस्याः वदनचन्द्रमसः । हरिणरचितं मृगविहितम् । विश्लिष्टं शिथिलितम् । लाञ्छनं वा चिह्नमिव । शुद्धस्नानात् विरहिणीत्वाद्गन्धस्नेहादिरहितस्नानात् । परुषं कर्कशम् । गंडलंबम् "सुप्सुपा" इति समासः । गण्डपर्यन्तावलम्बी । अलकं चूर्णकुन्तलम् । नूनम् अवश्यम् । विक्षिपन्तीं चालयन्तीम् । तां पश्येत्यन्वयः ॥ ४६ ॥
मद्विश्लेषादिति । मद्विश्लेषात् मम वियोगात् । उपहितशुचः प्राप्तदुःखस्य । दूरदेशस्थितस्य दविष्ठदेशस्थस्य । अनुचितानङ्गबा - धस्य अनुचिता अयोग्या अनङ्गस्य मदनस्य बाधा यस्य तस्य । प्राणेशस्य दयितस्य । स्वप्नजोपि स्वप्नावस्थाजन्योपि साक्षात्सम्भो गासम्भवादिति भावः । मत्संयोगः मम सम्भोगः । स्वयं जातुखकीयम् । कथं केन प्रकारेण । उपनयेदिति आगच्छेदिति आशयेति शेषः । " प्रार्थनायां लिङ् ।” नयनसलिलोत्पीडरुद्धावकाशां नय• नसलिलोत्पीडनान् अश्रुवत्या रुद्धावकाशाम् आक्रान्तावस्थां दुर्लभा