________________
सटीकम् ।
२१३
I
एवमिति । अतः कारणात् । त्वयि भवति सुभगतां रम्यताम् । व्यञ्जयद्भिः प्रकटयद्भिः । एवं कथितरीत्या । प्रायैर्बहुभिः । यथार्थैः तथ्यभूतैः । मत्संदेशैः मम वाचिकैः । सुखयितुम् आनन्दयितुम् । निशीथे अर्धरात्रे । “ अर्धरात्रनिशीथौ द्वौ " इत्यमरः । सद्मवातायनस्थः सौधगवाक्षस्थस्सन् । कुसुमशयने पुष्पशय्यायाम् । पर्य - स्ताङ्गीं पातितशरीराम् । निःसुखां सुखरहिताम् । आधिरुद्धां मनः पीडार्त्ताम् । “ पुंस्याधिर्मानसी व्यथा इत्यमरः । उन्निद्राम् उत्सृष्टस्वापाम् । अवनिशयनाम् अवनिरेव शयनं यस्यास्तां नियमार्थ भूशायिनीम् । साध्वीं पतिव्रताम् । तां त्वत्सखीम् । पश्य प्रेक्षस्व । तदुक्तं रसाकरे- “सुखायते च पितरौको मित्रदूतशुकादयः । सुखयन्तीष्टकन मुखोपायैर्वियोगिनाम्” इति । अनेन जागरावस्थोक्ता ||४३||
""
चित्रन्यस्तामिति ॥ चित्रन्यस्तां चित्रलिखिताम् । सवपुषं शरीरसहिताम् । मन्मथीयां मदनसम्बन्धाम् । अवस्थामिव दशामिव । आधिक्षामां मनोव्यथया कृशीभूताम् । ख्यायतेः कर्त्तरि क्तः । “क्षः” इति तस्य मः । विरहशयने विरहोचितशय्यायाम् । पल्लवादिरचिततल्प इत्यर्थः । सन्निषण्णैकपार्श्वा सन्निषण्णं न्यस्तम् एकं पार्श्व यस्यास्ताम् । अत एव । तापापास्त्यै तापनिवारणाय । हृदयनिहितां हृदये निक्षिप्ताम् हारयष्टिं हारलताम् । “ यष्टिर्दण्डे हारभेदे मधुकेप्यायुधान्तरे " इति भास्करः । दधानां वहन्तीम् । प्राचीमूले प्राच्याः पूर्वदिशो मूले । उदयगिरिप्रान्त इत्यर्थः । प्राचीग्रहणं क्षीणावस्थाद्योतनार्थम् । मूलग्रहणं दृश्यत्वार्थं । कलामात्रशेषां कलैव शेषो यस्यास्ताम् । सुधांशोश्चन्द्रस्य । तनुमिवमूर्त्तिमिव । स्थिताम् तां प श्येति पूर्वेणैवान्वयः । अनेन कार्यावस्थोक्ता ॥ ४४ ॥
मत्कामिन्या इति ।। त्वत्प्रियायाः तव भार्यायाः । सन्निधौ समीपे । मया सार्धम् । मत्कामिन्या मद्वल्लभया । प्रणयरसिकैः प्रीतिरसविशेषैः । इच्छारतैः अभीष्टनिधुवनैः । या रात्रिः निशा । क्षण