________________
२१२
पार्थाभ्युदयकाव्यं शुद्धस्नानात्परुषमलकं नूनमागण्डलम्बं . विश्लिष्टं वा हरिणचरितं लाञ्छनं तन्मुखेन्दोः॥४६॥ मद्विश्लेषादुपहितशुचो दूरदेशस्थितस्य
प्राणेशस्य स्वयमनुचिताऽनङ्गबाधस्य जातु । मत्संयोगा कथमिव नयेत्स्वप्नजोऽपीति निद्रा
माकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशाम् ॥४७॥३०॥२८ आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा
जन्मन्यस्माद्व्यवहिततरे वेणिका स्मर्यमाणा । शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयां
स्वां निन्दन्तीं विरहवपुषां सङ्गमं वा विधाय॥४८॥ ता वक्रेन्दुग्रसनरसिकां राहुमूर्ति श्रितां वा
व्योमच्छायां मदनशिखिनो धूमयष्टीयमानां । स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्ती ___ गण्डाभोगात्कठिनविषमामेकवेणी करेण ॥४९॥३॥२९॥ पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टा
निष्टान्बन्धूनिव मृगयितुं संश्रितान् सङ्ग्रहीतुम् । पूर्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव
प्रत्याहृत्य स्वनयनयुगं चेतसा धूयमानाम् ॥ ५० ॥ भूयोभूयः शिशिरकिरणे स्वान्कराञ्जालमार्ग
रातन्वाने पुनरपि गताभ्यागतैः क्लेशमानम् । खेदाच्चक्षुः सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रेह्रीव स्थलकमलिनी नप्रबुद्धां नसुप्ताम् ॥५१॥३२॥२७॥