________________
सटीकम् ।
२०९
-
यस्मिन्कर्मणि तत् । मूर्छनां क्रमविशेषविशिष्टस्वरस्थापनाम् । " नमगेषु विलोमेन स्वादयस्वरपूर्वगाः । पुराणास्थापनौ स्वातामूर्छनाः सप्तसप्त हि " इति गीतरत्नाकरे । भावयन्ती ध्यायंती । अन्यान्वयः प्राग्वदेव । एकान्तरितमिदम् ॥ ३८ ॥
तन्त्रीरिति ।। अथवा । नयनसलिलैः प्रियतमस्मृतिजनितैः नेत्रा - श्रुभिः । आर्द्राः सार्द्राः । " आर्द्र क्लिन्नम्" इत्यमरः । तत्रीर्वीणातन्तून् । कुसुममृदुभिः पुष्पवन्मृदुभिः । स्वाङ्गुल्ययैः निजाङ्गुलीनामप्रतलैः । कथञ्चित् कृच्छ्रेण । सारयित्वा प्रमृज्य अन्यथा कणितासम्भवादियर्थः । वल्लकीं वीणाम् । आस्पृशन्ती स्पर्शनं कुर्वन्ती । त्वदुपगमनं तवागमनम् । ध्यायंध्यायं ध्यात्वाध्यात्वा । “पूर्वाग्रे प्रथमाभीक्ष्ण्ये खमुञ्” इत्याभीक्ष्ण्ये खमुञ् । शून्यचिन्तानुकण्ठी नष्टचिन्तया अनुकूलः कण्ठो यस्याः सा । भूयोभूयः पुनः पुनः । स्वयमधिकृतां स्वयम् आत्मनाऽधिकृतामारब्धाम् । मूर्छनां क्रमविशेषविशिष्टस्वरस्थापनाम् । विस्मरन्ती स्खलन्ती । अन्त्यान्वयः प्राग्वत् । विस्मरणं चात्र दयि - तगुणस्मृतिजनितमूर्छापदेशादेव । तथा रसाकरे - " वियोगायोगयो - रिष्टगुणानां सदा कीर्तनात्स्मृतिः । साक्षात्कारोऽथवा मूर्छा जायते दशधा " इति । मत्सादृश्यमित्यादिना मनःसङ्गवृत्तिः सूचिता । द्र्यन्तरितमिदम् ॥ ३९ ॥
शेषानिति ॥ वा अथवा | जन्मान्यत्वेपि । अतीतवर्तमानभाविभवेपि । विरहदिवसस्थापितस्य विरहस्य प्रथमदिवसात् दिवसे वा स्थापितस्य निश्चितस्य । अवधेः प्रमाणकालस्य । देवभावानुभावात् देवभावो देवत्वं तस्य अनुभावः प्रभावस्तस्मात् । " अनुभावः प्रभावे च सतां च मतिनिश्चयः" इत्यमरः । अधिगतिमितानप्रमितान् शेषान मासान् गतावशिष्टान् । सर्वान्मासान् । देहलीमुक्तपुष्पैः देहली द्वारशाखायाः दारु " ग्रहावग्रहणी देहली " इत्यमरः । तत्र दत्तानि
१४