________________
२१०
पार्धाभ्युदयकाव्यं राशित्वेन निहितानि तैः पुष्पैः कुसुमैः । स्मृत्यारूढान् स्मरणारूढान्। खात्मनः स्वजीवस्य । मृत्युसन्धीन मरणस्य सन्धीन् । “ रन्ध्रसंश्लेषयोः सन्धिः ” इति धनञ्जयः । स्फुटयितुमिव व्यक्तीकर्तुमिव । गणनया एको द्वावित्यादिसङ्खथानेन । भुवि भूमितले। विन्यस्यन्तीविक्षिपन्ती । कुसुमविन्यासैविरहावधेर्मासान् गणयन्तीत्यर्थः ॥४०॥
बुद्ध्यध्यासादिति ॥ वा एवं नास्ति चेत् । स्वपने स्वप्ने । विस्पष्टभूयमिव स्पष्टतरत्वमिव । “हत्याभूयं भावे” इति साधुः । बुद्ध्यध्यासात् मतिनिश्चयात् । त्वयामा त्वया सह । “अमा सह समीपे च" इत्यमरः । हृदयरचितारम्भं हृदये मनसि निहितः सङ्कल्पितः आरम्भः उपक्रमः यस्य तम् । यद्वा-हृदये निहिताश्चुम्बनाऽलिङ्गनादयो व्यापारा यस्मिन् तम् । सम्भोगं रतिम् । आस्वादयन्ती अनुभवन्ती। अथवा वा । मूर्छासुप्ता मूर्च्छया शयिता । सखीभिः वयस्याभिः । सभयं भयसहितं यथा तथा । आश्वास्यमाना विसंभ्यमाणा सा वनिता । ते तव । आलोके दर्शने ॥ निपतति गोचरा भवतीति पूर्वेणान्वयः । अर्थान्तरन्यासेन परिहरति । प्रायेणेति ॥ अङ्गनानां स्त्रियाम् । रमणविरहेषु । एते कथितार्थाः । प्रायेण प्राचुर्येण । विनोदाः कालयापनोपायाः। एतेन सङ्कल्पावस्थोक्ता । तथोक्तम्-"सङ्कल्पो नाथविषयो मनोरथ उदाहृतः ॥ इति षडिः कुलकम् ॥ ४१ ॥ सख्यालापैः सुखविरुतिभिस्तद्विनोदैस्तथाऽन्यैः
सव्यापारामहनि न तथा पीडयेद्विप्रयोगः । स्वापापायाद्धृदयनिहितं त्वामजस्रं स्मरती
शके रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ॥ ४२ ॥ सख्यालापैरिति ॥ रात्रौ निशायाम् । स्वापापायात् निद्राया अपायात् अभावात् । हृदयनिहितं हृदये स्मृतम् । त्वां भवन्तम् । १ उक्तिरतिरन्यासस्स्यात्सामान्यविशेषयोरिति लक्षणात् ।