________________
२०८
पार्श्वाभ्युदयकाव्यं
ते निकटागामिके पुरा " इत्यमरः । निपतति दृष्टिगोचरा भविष्यतीत्यर्थः - द्र्यन्तरितार्धवेष्टितमिदम् ॥ ३६ ॥
आलिख्येति ।। वा अथवा । अतः अनन्तरम् । भवदनुकृतिम् तवाकृतिम् क्वचित् फलकादौ । आलिख्य लिखित्वा । प्राक्तनीं प्रागनुभूतविषयाम् । मन्यमाना मन्यते इति मन्यमाना बुध्यमाना । कृच्छ्रात् कष्टात् । चक्षुः नयनम् । जात्येकवचनम् । उन्मील्य उत्पाट्य । सजलनयनं साश्रुनेत्रम् । पश्यन्ती अवलोकयन्ती । वा अथवा । रसिके भो सरसे । त्वं भवती । तस्य भर्तुः । प्रवासिनः स्वामिनः । प्रिया हि इष्टा खलु स्मरसि कञ्चित् बुध्यसे कश्चित् । " कञ्चित्कामप्रवेदने " इत्यमरः । " स्मृत्यर्थदयेशां कर्म " इति कर्मणि षष्ठी । भर्तारं स्मरसि किमित्यर्थः । इति एवम् । पञ्जरस्थां हिंस्रेभ्यो विहितरक्षणामित्यर्थः । सारिकां स्त्रीपक्षिविशेषाम् । मधुरवचनं मञ्जुलभाषणं यथा तथा । पृच्छन्ती वाचयन्ती । सति आलोके पुरा निपततीत्यत्रोत्तरत्राप्यन्वीयते ।। ३७ ।।
1
उत्सङ्ग इति ।। वा अथवा । हे सौम्य हे साधो । मलिनवसने मलीमसवत्रे । " प्रोषिते मलिनाकृतिः " इति शास्त्रादित्यर्थः । उत्सङ्गे ऊरौ । वीणां निक्षिप्य । त्वां भवन्तम् । उद्दिश्य सङ्कीर्त्य । विरचितपदं विरचितानि पदानि यस्य तत्तथोक्तम् । मद्गोत्राङ्कं मम गोत्रं नाम अङ्कः चिह्नं यस्मिन् तन्मद्गोत्रांकं मन्नामाक्षरचिह्नं मदन्वयाङ्कं वा । " गोत्रं तु नाम्नि च " इत्यमरः । गेयं गीतार्ह - प्रबन्धम् । गीतमिति वा पाठः । गाढोत्कण्ठं गाढा उत्कण्ठा यस्मि - न्कर्मणि तत् । करुणविरुतं करुणस्वरं यथा तथा । विप्रलापायमानं प्रलापसमानम् । उद्गातुकामा उच्चैर्गातुं कामोऽभिलाषो यस्याः सा तथोक्ता । देवयोनित्वाद्गान्धारग्रामम् । गातुकामेत्यर्थः । तदुक्तम् — षड्डुमध्यमनामानौ ग्रामौ गायन्ति मानुषाः । न तु गान्धारनामा वै स लभ्यो देवयोनिभिः ॥” इति । प्रचलदलकं प्रचलन्तोऽलका
፡፡