________________
सटीकम् ।
गत्वा सद्यः कलभतनुतां शीघ्रसम्पातहेतोः क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः ॥ ३४ ॥
पश्येति ।। शीघ्रसम्पातहेतोः शीघ्रसम्पात एव हेतुस्तस्य शीघ्रप्रवेशार्थमित्यर्थः । " हेतौ हेत्वर्थैः सर्वाः प्रायः" इति षष्ठी । “सम्पातितः पतिते योगे प्रवेशे वेदसंविदोः " इति शब्दार्णवे । सद्यः सपदि । कलभतनुतां कलभस्य करिपोतस्य तनुरिव तनुर्यस्य तस्य भावस्तनुता ताम् अल्पशरीरताम् । गत्वा गमित्वा । प्रथमकथिते तस्यास्तीर इत्यादिना पूर्वोपदिष्टे । रम्यसानौ निषदनयोग्य इत्यर्थः । क्रीडाशै - ले कृतकगिरौ । निषण्णः उपविष्टः सन् । अमुष्याम् अस्याम् । उपवनभुवि उद्यानभूमौ । त्वत्तः भवतः । विरहविधुरां वियोगदुःखिताम् । आधिं मनः पीडाम् । पुंस्याधिर्मानसी व्यथा इत्यमरः । दधानां धरन्तीम् । तां प्रेयसीं प्रकृष्टप्रियाम् । मद्वचः प्रत्ययेन मम वचनविश्वासेन । पश्य प्रेक्षस्व ॥ ३४ ॥
I
66
""
२०५
नोचेदन्तर्गृहमधिवसेत्सा दशामुद्वहन्ती
गूढं द्रष्टुं समभिलषितां तां तदा तत्स्थ एव । अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं
"
खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् || ३५ ॥ २४ ॥ १८॥ नोदिति || नो चेत् अथवा उपवने । नास्ति चेदित्यर्थः । सा प्रिया । दशां विरहावस्थाम् । उद्वहन्ती बिभ्रती । अन्तगृहं गृहस्यान्तस्तथोक्तस्तम् । अधिवसेत् तिष्ठेत् । " वसोनूपाध्याङ् ” इति । द्वितीया । तदा तर्हि । तत्स्थ एव क्रीडाशैलस्थ एव । समभिलषिताम् अभिकाङ्क्षिताम् । तां प्रियाम् । गूढं गुप्तं यथा तथा । द्रष्टुं दर्शनाय । अल्पाल्पभासम् अल्पाल्पा अल्पप्रकारा भाः प्रकाशो यस्यास्ताम् । तद्गुणसदृशे वेति द्विरुक्तिः । खद्योतालीविलसितनिभां खद्योतानामालिस्तस्या विलसितेन स्फुरितेन निभां सदृशाम् । विद्युदुन्मेषदृष्टिं