________________
२०४
पार्श्वभ्युदयकाव्य णे च” इति काशिकायाम् । हे मुने इति वा । "तपस्वी संयमी योगी वर्णी साधुश्च ” इति धनञ्जयः । हृदयनिहितैः अतिस्मृतैरित्यर्थः । एभिः लक्षणैः पूर्वोक्तलक्षणैः । तोरणादिभिरभिज्ञानैः । द्वारोपान्ते । एकवचनमविवक्षितम् । द्वारोपान्तयोरित्यर्थः । लिखितवपुषौ लिखिते वपुषी आकृती ययोस्तौ तथोक्तौ । शङ्खपद्मौ शङ्खश्च पद्मश्च तौ तन्नामनिधिविशेषौ । " निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः " इत्यमरः । दृष्ट्वा लक्षयेथाः निश्चिनुयाः । तत्रागारमित्यादिष्वतिसमृद्धवस्तुवर्णनादुदात्ताऽलङ्कारः ॥ ३२ ॥
तस्या दुःखप्रशमनविधौ व्यापृते मत्कलत्रे
मूकीभूतेऽप्यनुचरजने मन्दमन्दायमाने । क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यतिखामभिख्याम्॥३३॥२३॥१७॥ तस्या इति ॥ तस्याः प्रियायाः । दुःखप्रशमनविधौ दुःखोपशमनकार्ये । मत्कृते । मम प्रियायां व्यापृतायां सत्याम् । अनुचरजनेपि परिचारकजनेपि । मूकीभूते संलापरहिते । मन्दमन्दायमाने मन्द व्यापारवति सति । अधुना इदानीम् । “एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा" इत्यमरः । मद्वियोगेन मम प्रवासेन । भवनं गृहम् । क्षामच्छायम् उत्सवोपरमात् क्षीणकान्ति । नूनं निश्चयेन स्यादिति शेषः । तथाहि । सूर्यापाये अरुणविगमे । कमलं पद्मम् । स्वाम् आत्मीयाम् । अभिख्यां शोभाम् । “ उपसर्गादातः ” इत्यङ् । न पुष्यति खलु नोपचिनोति हि । सूर्यविरहितपद्ममिव । गृहपतिरहितं गृहमपि न शोभते इति तात्पर्य्यम् ॥ ३३ ॥ पश्यामुष्यामुपवनभुवि प्रेयसीं तां दधाना
माधिं त्वत्तो विरहविधुरां मद्वचःप्रत्ययेन ।