________________
सटीकम् ।
२०१
स्याद्वासन्ती माधवीलता " इत्यमरः । प्रत्यासन्नौ सन्निकृष्टौ । चलकिसलयः चलानि किसलयानि यस्य सः । अनेन वृक्षस्य पादताडनेषु प्राञ्चलित्वं व्यज्यते । रक्ताशोकः रक्तश्चासावशोकश्च सः । रक्तविशेषणमस्य स्मरोद्दीपकत्वात्कृतम् । “ असूनकैरशोकस्तु श्वेतरक्त इति द्विधा । बहुसिद्धिकरः श्वेतो रक्तः स्मरविवर्धनः ।। " इत्यशोककल्पे दर्शनात् । कान्तः कमनीयः । " कान्तं मनोहरं रुच्यं मनोज्ञम् अथ केसरे बकुल: केसरश्च बकुलश्च । इत्यमरः । तौ च वृक्षौच । महिन्याः । कलत्रं गेहिनी गृहम् इति धनञ्जयः । मृगाक्ष्याः मृगस्येव अक्षिणी यस्याः सा तथोक्तायाः । तस्याः वनितायाः । पीडां दुःखम् । " पीडा बाधा व्यथा दुःखम् इत्यमरः । रहयितुं निवारयितुम् । 'रह - त्यागे' । अलं शक्तौ भवत इति मन्ये जाने ।। २८ ॥
66
""
""
इत्यमरः
८८
""
"
कामस्यैकं प्रसवभवनं विद्धि तौ मन्निवेशे
महिन्या विरचिततलौ सेवनीयौ प्रियायाः । एकः सख्यास्तव सह मया वामपादाभिलाषी
I
काङ्क्षत्यन्यो वदनमदिरां दौहृदच्छद्मनास्याः ॥ २९॥२१॥१५॥ कामस्येति ।। मन्निवेशे मम सदने । महिन्या मद्भार्यया । विरचिततलौ संस्कृताधिष्ठानौ । प्रियायाः भार्यायाः । सेवनीयौ श्रयणीयौ । तौ रक्ताशोककुरबकौ । कामस्य मन्मथस्य । एकं मुख्यम् । “एके मुख्यान्यकेवलाः ” इत्यमरः । प्रसवभवनम् उत्पत्तिसदनम् । “ प्रसवो जननानुज्ञापुत्रेषु फलपुष्पयोः " इति वैजयन्ती । विद्धि जानीहि । 'विद - ज्ञाने' लट् । एकः तयोरन्यतरः अशोकः । मया सह तव सख्याः कान्ताया: । वामपादाभिलाषी वामपादमभिलषति इत्येवंशीलः तथोक्तः । दौहृदच्छद्मनेत्यत्रापि सम्बन्धनीयं सचा भिलाषावित्यर्थः । अन्यः केसरः । दौहृदच्छद्मना दौहृदं वृक्षादीनां प्रसवकारणं संस्कारद्रव्यं तरुगुल्मादीनामकाले । पुष्पाद्युत्पा
८८