________________
२०२
पार्श्वभ्युदयकाव्यं दक द्रव्यं दौहृदं स्यात्ततः क्रिया” इति शब्दार्णवात् । तस्य छद्मना व्याजेन । “कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे " इत्यमरः । अस्याः सख्याः । वदनमदिरां गण्डूषवृषरसम् । काङ्क्षति वाञ्छति । मया सहेत्यत्रापि सम्बन्धनीयम् । अशोकबकुलयोः स्त्रीपादताडनगण्डूषमदिरे दौहृद इति प्रसिद्धम् ॥ २९ ॥ मूलं वोच्चैर्मनसि निहितं लक्ष्यते त्वद्वियोगा
त्तस्या साद्याध्यवसितमृतेर्बहिणाधिष्ठिताया। तन्मध्ये च स्फटिकफलका काञ्चन्नी वासयष्टि
मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ॥ ३०॥ मूलमिति ॥ किञ्च तन्मध्ये तयोवृक्षयोर्मध्ये । बार्हिणा मयूरेण । अधिष्ठिताना अधिष्ठितमग्रं यस्याः सा । स्फटिकफलका स्फटिकमयं फलकं पीठं यस्याः सा तथोक्ता । अनतिप्रौढवंशप्रकाशैः अनतिप्रौढानाम् अनतिकठोराणां वंशानां प्रकाश इव प्रकाशो येषां तैः । तरुणवेणुसमच्छायैः । मणिभिः मरकतशिलाभिः । मूले बद्धा कृतवेदिकेत्यर्थः । काञ्चनी काश्चनस्य विकारः काञ्चनी सौवर्णा । सा प्रसिद्धा । वासयष्टिः निवासदण्डः । “ यष्टिर्दण्डे हारभेदे मदुकेप्यायुधान्तरे” इति भास्करः । अद्य इदानीम् । तस्याः कामिन्याः । मनसि चित्ते । त्वद्वियोगात् तव विरहात् । अध्यवसितमृतेः अध्यवसिता निश्चिता मृतिर्मरणं यया तस्याः । निहितं प्रतिष्ठितम् । उच्चैः महत् । मूलं वा मूलमिव लक्ष्यते दृश्यते ॥ ३०॥
तां कामिन्यः कुसुमधनुषो वैजयन्तीमिवैकां ___ मत्वार्चन्ति प्रबलरुदिता सापि साध्वी तदात्यै । तालैः शिञ्जाविलयसुभगैः कान्तया नर्तितो मे ___ यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्धः॥३१॥२२॥१६॥