________________
२००
पार्श्वभ्युदयकाव्यं त्वां ध्यायन्त्या विरहशयनाभोगमुक्ताखिलाङ्गयाः __ शङ्के तस्या मृदुतलमवष्टभ्य गण्डोपधानम् । हस्तन्यस्तं मुखमसकलव्यक्ति लंबालकत्वा
दिन्दोर्दैन्यं त्वदुपसरणक्लिष्टकान्तिर्विभर्ति ॥२७॥२०॥२१॥ त्वामिति ॥ विरहशयनाभोगमुक्ताखिलाझ्याः विरहशयनाभोगात् विरहोषितशयनस्थानात् मुक्तमखिलाङ्गं यस्यास्तस्याः । त्वां भवन्तम् । ध्यायन्त्याः स्मरन्त्याः। तस्याः कामिन्याः। “असहनञ्-'इतिङी । मृदुतलं कोमलतलम् । गण्डोपधानं गण्डोपबर्हम् । “ उपधानं तूपबहम् ” इत्यमरः । अवष्टभ्य अवलम्ब्य । हस्तन्यस्तं हस्ते करे न्यस्यते स्म तथोक्तम् । लम्बालकत्वात् संस्काराभावेन लम्बमानकुन्तलत्वात् । असकलव्यक्ति असंपूर्णा व्यक्तिः यस्य तत् । मुखं वदनम् । त्वदुपसरणक्लिष्टकान्तेः तवानुसरणेन मेघाश्रयेण क्लिष्टाऽतीक्ष्णा कान्तिः यस्य तस्य । इन्दोः चन्द्रस्य । दैन्यं शोच्यताम् । बिभात । शङ्के एवं शङ्कयामि ॥२७॥ तस्याः पीडां रहयितुमलं तौ च मन्ये मृगाक्ष्या
मद्गहिन्याः सहसहचरी सेवते यो द्वितीया । रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः
प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ॥ २८ ॥ तस्या इति ॥ अत्र गृहोपवने । सहसहचरी विकल्पितः सभावः । “ वयस्याली सहचरी” इति धनञ्जयः । द्वितीया द्वयोः पूरणा द्वितीया । यौ वृक्षौ । सेवते भजते । कुरबकवृतेः कुरबक एव वृतिरावरणं यस्य तस्य । “सैरेयकस्तु झिंटी स्यात्तस्मिन्कुरबकोरुणे” इत्यमरः । माधवीमण्डपस्य मधौ वसन्ते भवा माधवी तस्याः मण्डपस्तस्य अतिमुक्तलतागृहस्य । “ अतिमुक्तः पुण्ड्रकः