________________
सटीकम् ।
१९९
""
सस्योष्णेन प्रदविता ग्लाना मुखकमलस्य कान्तिर्यस्याः सा तथोक्ता । विरूक्षा अप्रसन्ना । 66 रूक्षस्त्वप्रेम्ण्यचिक्कणे इत्यमरः । चिन्ता - वेशात् चिन्ताक्रान्तेः । अपचिता विश्लिष्टा कृशीभूतेत्यर्थः । सालसापाङ्गवीक्षा अलससहिता सोपेक्षा अपाङ्गस्य वीक्षा वीक्षणं यस्याः सातथोक्ता । तस्याः वनितायाः । तनुः मूर्त्तिः । शिशिरमथिता शिशिरेण शिशिरकालेन मथिता पीडिता । पद्मिनीव नलिनीव । अन्यरूपा पूर्वाकाररहिता । जाता जायते स्म । मन्ये एवमहं बुध्ये । हिमेन पद्मिनीव विरहेण तस्यास्तनुर्निर्विलासेति तर्कयामीति भावः ॥ २५॥
इतोऽर्धत्रेष्टितानि
निद्रापायाद्रजनिषु मुहुस्तावकं सम्प्रयोगं
दिध्यासोः स्याद्वदनमपरं त्विन्दुबिम्बानुकारि । नूनं तस्याः प्रबलरुदितोच्छूननेत्रं बहूनां
निश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ॥ २६ ॥
66
निद्रेति ॥ रजनिषु रात्रिषु । निद्रापायात् निद्राविरहात् । मुहुः पुनः पुनः । तावकं तवायं तावकस्तं तव सम्बन्धम् । युष्मदस्मदोऽख वाकङ्कैकस्मिंस्तवकममकम् ” इत्यन् तवकादेशश्च । सम्प्रयोगं सङ्गमम् । दिध्यासोः ध्यातुमिच्छोः । तस्याः वनितायाः । इन्दुबिम्बानुकारि चन्द्रमण्डलसदृशम् । वदनं लपनम् । प्रबलरुदितोच्छूननेत्रं प्रबलरुदितेन बहुलरोदनेन उच्छूने स्थपुटिते नेत्रे यस्य तत् तथोक्तम् । “तत्रोच्छूनेतिश्वयतेः” कर्तरि क्तः । “रदाद्योः” इति तस्य नः । “पश्व्यादिति” यज्ञ इक् । “भूच्छ्रोनुनासिके चेत्याच्” । बहूनांनिश्वासानाम् अधिकतां उच्छ्रासानाम् अशिशिरतया अन्तस्तापोष्णत्वेन भिन्नवर्णाधरोष्ठं भिन्नवर्णौ विच्छायौ अधरोष्ठौ ऊर्ध्वाधोदन्तवाससी यस्य तत् तथोक्तम् । नूनं निश्चयेन । अपरम् अन्यरूपम् । स्यात् भवेत् ॥ २६ ॥