________________
१९८
पार्श्वभ्युदयकाव्यं रस्त्रियशूद्रात्"इति जी ।" एकाम् एकाकिनीम् । तां त्वं जानीया इति कर्तृकर्मक्रियाणामत्राप्यन्वयः । युग्मम् ॥ २३ ॥ मय्यायाते करकिसलयन्यस्तववेन्दुमुग्धा
त्वामेवाहर्निशमभिमनाश्चिन्तयन्ती वियोगात् । याता नूनं बत तव दशामाशु मर्तव्यशेषां __गाढोत्कण्ठा गुरुषु दिवसेष्वेषु गच्छत्सु बाला ॥२४॥
मयीति ॥ मयि यक्षे । आयाते आगतेसति । तव भवतः । वियोगात् विरहात् । एषु विरहगुरुषु विरहमहस्सु। दिवसेषु दिनेषु । गच्छत्सु अतीतेषु । बाला सा कामिनी । करकिसलयन्यस्तवकेन्दुमुग्धा पाणिपल्लवोपरिन्यस्तमुखेन्दुः सा चासौ मुग्धा च तथोक्ता । अहर्निशम् अहोरात्रम् । अभिमनाः उन्मनाः । त्वामिव भवन्तमिव । चिन्तयन्ती ध्यायन्ती । गाढोत्कण्ठा प्रबलविरहवेदना । मर्तव्यशेषां मरणावशिष्टाम् । दशाम् अवस्थाम् । आशु शीघ्रण । नूनं निश्चयेन । याता गता। बत हन्त ।" खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत" इत्यमरः ॥ २४॥ तस्याः पीनस्तनतटभरात्सामिनम्राग्रभागा
निश्वासोष्णप्रदवितमुखाम्भोजकान्तिर्विरूक्षा । चिन्तावेशात्तनुरपचिता सालसापाङ्गवीक्षा
जातामन्ये शिशिरमथिता पद्मिनीवान्यरूपा॥२५॥१९॥२०॥ तस्या इति ॥ पीनस्तनतटभरात् पीनयोः स्तनयोस्तटस्य भरात् भारात् । “ भरोतिशयभारयोः ". इति भास्करः । सामिनम्राग्रभागा सामि ईषत् “सामि त्वर्धे जुगुप्सिते” इत्यमरः । नम्रः नमनशीलः “ नम्कम्यजस्कभ्यः” इत्यादिना रः । अग्रभागो यस्याः सा तथोक्ता । निश्वासोष्णप्रदवितमुखाम्भोजकान्तिः निश्वा