________________
सटीकम् ।
१९७ भ्रातुर्वाक्यात्प्रणयविवशां त्वं वितान्यथालं ___तां जानीयाः परिमितकथां जीवितं मे द्वितीयम् ॥ २२ ॥ सख्यानीतैः सरसकदलीगर्भपत्रोपवीज्यै
लब्धाश्वासां किमपिकिमपि श्लिष्टवर्ण लपन्तीम् । शीर्णप्रायां विरहविधुरामावयोर्बद्धसाम्या
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ॥२३॥ युग्मम् ॥ साध्वीमिति ॥ साध्वीं पतिव्रताम् । “ सती साध्वी पतिव्रता" इत्यमरः । अन्यपौंस्ने अन्यपुरुषसमूहे । अन्ये च ते पुमांसश्च अन्यपुमांसः तेषां समूहः अन्यपौंस्त्रं तस्मिन् । “स्त्रीपुंसात् नलडतः” इति नट् त्यः । निराशाम् आशारहिताम् । कन्यावस्थां कुमार्यवस्थाम् । सखीनां वयस्यानांमध्ये इति शेषः । “आलिस्सखी वयस्या च"इत्यमरः । त्वदुपगमने तवागमने। लब्धकामां रचिताभिलाषाम् । प्रणयविवशां प्रीत्यधीनां । चित्ते अन्तरङ्गे । विधिनियमितां व्रतरूपविधाननिर्मिताम् । परिमितकथां स्तोकवाक्यामित्यर्थः। तां वसुन्धराम् । सखीनां वयस्यानाम् । अन्यथा अन्येन प्रकारेण । वितळ विचार्य । अलं पर्याप्तम् । भ्रातुः सहोदरस्य कमठचरस्य । वाक्यात् वचनप्रामाण्यात् । मे मम द्वितीयं द्विपूरणम् । जीवितं प्राणान् । त्वं भवान् । जानीयाः जानीहि ॥२२॥ सख्यानीतैरिति ॥ आवयोः तव ममापि । लब्धसाम्यात् विहितसमानत्वात् । सहचरे सहाये । मयि यक्षे । दूरीभूते दूरदेशस्थिते सति । विरहविधुरां विरहपीडिताम् । शीर्णप्रायां जर्जराङ्गयष्टिम् । सख्यानीतैः सखीभिर्वयस्याभिरानीतैः । सरसकदलीगर्भपत्रोपवीजैः सरसरम्भान्तर्गतपत्ररचितव्यजनैः । लब्धाश्वासां प्राप्तजीविताम् । किमपिकिमपि कियत्कियत् । श्लिष्टवर्ण म्लिष्टाक्षरं यथा तथा । लपन्तीं ब्रुवतीम् । चक्रवाकीमिव सहचरचक्रवाके दूरीभूते चक्रवाककान्तामिव । “जाते