________________
१९६
पार्श्वाभ्युदयकाव्यं
च्छुः । चन्द्रकान्तोपलान्ते चन्द्रकान्तशिलातले । " अन्तोऽस्त्री निश्वये नाशे स्वरूपेग्रेन्तरेन्तकः " इति भास्करः । लिखित्वा विलिख्य । ध्यायन्ती पश्यन्ती । नयनसलिलैः नेत्राश्रुभिः । दृष्टिमार्गे दर्शनमार्गे । निरुद्धे आवृते सति । श्रोणीभारात् नितम्बभारात् अलसगमना न तु जङ्घादोषात् । स्तनाभ्यां पीनोत्तुङ्गपयोधराभ्याम् स्तोकनम्रा ईषवनता । न तु अवलग्नदोषात् । तस्मात् चन्द्रशिलातलात् । यान्ती गच्छन्ती । द्रष्टा दृशेर्लट् । प्रेक्षिता भविष्यति ॥ २० ॥
कामावस्थामति बहुतिथिं धारयन्ती त्वयासौ ज्ञेया साक्षाद्रतिरिव मनोहारिणी तत्र गत्वा । नानावेषे बहुविरचिते किन्नरस्त्रीसमाजे
या तत्र स्याद्युवतिविषया सृष्टिराद्येव धातुः ॥ २१ ॥ १८॥ १९॥
/
कामवस्थामिति । तत्र निवासे । नानावेषे नाना विविधा वेषा अलङ्कारा यस्य तस्मिन् । बहुविलसिते बहुविलासे । किन्नरस्त्रीसमाजे किन्नरस्त्रीणां समूहे । या कामिनी । धातुः ब्रह्मणः । युवतिविषया युवतय एष विषयो यस्याः सा । आद्या आदौ भवा आद्या प्रथमभूता । सृष्टिरिव सर्जनमिव । स्याद्भवेत् । इति उक्त-वक्ष्यमा - णप्रकारेण । बहुतिथिं बहुप्रकाराम् । बहुगणपू: सङ्घात् प्तिर्थट् ” “ टिट्ठण्ढे-" इति ङी । कामावस्थां मन्मथावस्थाम् । धारयन्ती बिभ्रती । साक्षात् रतिरिव प्रत्यक्षभूता रतिदेवीव । मनोहारिणी मनोहरा । असौ एषा कन्या । त्वया भवता । तत्र तत्पुरम् । गत्वा प्राप्य । ज्ञेया ज्ञातव्या ।। २१ ।।
८८
साध्वीं चित्ते विधिनियमितामन्यपस्ने निराशां कन्यावस्थां त्वदुपगमने बद्धकामां सखीनाम् ।