________________
१९५
सटीकम् । यस्या हेतोस्तव च मम च प्राग्भवेऽभूद्विरोध
स्तत्रोत्पन्ना निवसति सती साधुना किन्नराणाम् । द्रष्टा सौम्यं सजलनयना त्वां स्मरन्ति स्मरार्ता मध्येक्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ॥ १९ ॥
यस्या इति ॥ यस्याः वसुन्धरानामकान्तायाः । हेतोः कारणात् । प्राग्भवे कमठमरुभूतिभवे । तव च भवतोऽपि । मम च ममापि । विरोधः विद्वेषः । अभूत् अभवत् । सा वसुन्धरा । अधुना इदानीम् । किन्नराणां यक्षाणाम् । तत्र निवासे अलकापुरि । उत्पन्ना सती जाता सती । निवसति वर्तते । त्वां भवन्तम् । स्मरन्ती चिन्तयन्ती प्राप्तभवत्स्मरणेत्यर्थः । स्मरा" कामार्ता । मध्येक्षामा मध्ये कट्यां क्षामा कृशीभूता तथोक्ता । अलुक्समासः । चकितहरिणीप्रेक्षणा भयकम्पितायाः हरिण्याः प्रेक्षणे इव प्रेक्षणे दृष्टी यस्याः सा तथोक्ता । एतेनास्याः पद्मिनीत्वं सूच्यते । तदुक्तं पद्मिनीलक्षणप्रस्तावे" चकितमृगशामे प्रान्तरक्ते च नेत्रे” इति । निम्ननाभिः गम्भीरनाभिः । अनेन नारीणां 'नाभिर्गम्भीरः कामरसातिरेकः' इति काम सूत्रार्थः सूच्यते । सजलनयना साश्रुनेत्रा । सौम्यं शान्तं यथा । वथा । द्रष्टा दृशेर्छन् । प्रेक्षिता भविष्यति ॥ १९ ॥ द्रष्टा भूयः स्मरपरवशा चन्द्रकान्तोपलान्ते
ध्यायन्ती त्वां सहसहचरं संदिदृक्षुर्लिखित्वा । यान्ती तस्मान्नयनसलिलैदृष्टिमार्गे निरुध्ये
च्छोणीभारादलसगमना स्तोकनम्रा स्तनाभ्याम् ॥ २०॥ दृष्ट्वेति ॥ भूयः पुनः । स्मरपरवशा मन्मथपीडिता । त्वां भवन्तम् । सहसहचरं सहचरेण सह वर्तते इति सहसहचरस्तम् । “वान्यातः” इति विकल्पितः सकारादेशः । संदिदृक्षुः सम्यक् द्रष्टुमि