________________
पार्श्वाभ्युदयकाव्यं
१९४
तन्मे वाक्यादपगतभयस्त्वं व्यवस्यात्मनीनं तीर्थे ध्वाङ्गं स्थितमपनुदन्स्याः स्थिरात्मा मदुक्ते । तत्रैवास्ते तव च दयिता लक्ष्यते लब्धजन्मा तन्वी श्यामा शिखरिदशना पक्कबिम्बाधरौष्ठी ॥ १८ ॥
""
66
1
८८
,"
तदिति ॥ तत् तस्मात् कारणात् । मे मम । वाक्यात् । त्वं भवान् । अपगतभयः रहितभीतिः सन् । आत्मनीनम् आत्मने हितमात्मनीनम् । " भोगोत्तरपदाभ्यां खः " व्यवस्य निश्चित्य । मदुक्ते मयोक्ते मया प्रणीते । तीर्थे तीर्थस्थाने । “ तीर्थ प्रवचने पात्रे लब्धाम्नाये विदांवरे । पुण्यारण्ये जलोत्तारे महासत्यां महामुनौ इति धनञ्जयः । स्थितं तिष्ठति स्म स्थितस्तम् । ध्वाङ्कं वायसं बकं वा । ध्वाङ्क्षः " इति नानार्थरत्नमालायाम् | अपनुदन् काकबकौ तिरस्कुर्वन् । स्थिरात्मा निश्चलात्मा । स्याः भवेः । तव ते । दयिता च वसुन्धरा नाम पूर्वभवकान्ताऽपि । तत्रैव अलकायामेव । लब्धजन्मा प्राप्तजनना । तन्वी कृशाङ्गी । लक्ष्णं दभ्रं कृशं तनुः इत्यमरः। “असहनविद्यमानात् -" इत्यादिना ङी । श्यामा युवतिः । श्यामा यौवनमध्यस्था " इत्युत्पलमालायाम् । शिखरिदशना शिखराण्येषां सन्तीति शिखरिणः कोटिमन्तः । " शिखरं शैलवृक्षाग्रकक्षापुलिनकोटिषु ” इत्यमरः । शिखरिणो दशना यस्याः सा शिखरिदशना । एतेनास्या भाग्यवत्त्वं पत्युरायुष्मत्त्वं च सूच्यते । तदुक्तं सामुद्रिके - " स्निग्धाः समानरूपाः स्युः पङ्कयः शिखरिणः लिष्टाः । दन्ता भवन्ति यासां तासां पादे जगत्सर्वम् । ताम्बूलरसरक्तेपि स्फुटभासः समोदयाः । यस्याः शिखरिणो दन्ता दीर्घ जीवति तत्पतिः " इति । पक्कबिम्बाधरौष्ठी पक्कं परिणतं बिम्बं विम्बफलमिवाधरौष्ठौ अधस्तनोपरितनद्न्तच्छदौ यस्याः सा तथोक्ता । सती । असहनञ्- " इत्यादिना ङी । आस्ते विद्यते । लप्स्यते त्वया प्राप्स्यते । “ डुलभष् प्राप्तौ ” कर्मणि लट् ॥ १८ ॥
66
८८