________________
सटीकम् ।
१९३ व मयकि कुत्सिते मयि मयकि । ते तव । सुतराम् अत्यर्थम् । प्रत्ययः विश्वासः । स्याद्भवेत् । तत् अन्यच्च अपरमपि चिह्नम् । आख्येयं भाषणीयम् । स्याद्भवेत् । तस्याः वापिकायाः । तीरे तटे । पेशलैः चारुभिः । इन्द्रनीलैः रत्नैः । विहितशिखरः कृतशृङ्गः । इन्द्रनीलमणिमय इत्यर्थः । कनककदलीवेष्टनप्रेक्षणीयः । कनककदलीनां वेष्टणेन आवरणेन प्रेक्षणीयः दर्शनीयः मनोहर इत्यर्थः । क्रीडाशैलः कृतकगिरिः अस्तीति शेषः ॥ १६ ॥
रत्याधारो रतिकर इवोत्तुङ्गमूर्तिर्विनीलः
शैलो मूले कनकपरिधिर्मे मनोऽद्यानुशासत् । मद्देहिन्या प्रिय इति सखे चेतसा कातरेण
प्रेक्षोपान्तस्फुटिततडितं त्वां तमेव स्मरामि ॥१७॥१७॥१४॥ रत्याधार इति ॥ सखे भो मित्र । रत्याधारः क्रीडाधारः । रतिकर इव रतिकरपर्वत इव । उत्तुङ्गमूर्तिः उन्नतमूर्तिः । विनीलः नीलवर्णः । मूले तले । कनकपरिधिः सुवर्णप्राकारः “परिधिर्यज्ञियकाष्ठे स्यात्प्राकारे परिवेषणे” इति वैजयंती । शैलः क्रीडाद्रिः । अद्य इदानीम् । मे मम । मनः चित्तम् । अनुशासत् प्रबोधयन् । मद्गहिन्याः मत्प्रियायाः । प्रियः इष्टः । इति हेतोः । कातरेण भ्रान्तेन । चेतसा मनसा । उपान्तस्फुटिततडितम् उपान्तेषु स्फुटिता उज्ज्वलितास्तडितो यस्य तम् । त्वां मेघम् । प्रेक्ष्य दृष्ट्वा । तमेव क्रीडाशैलमेव । स्मरामि चिन्तयामि । एवकाराद्विषयान्तरव्यवच्छेदः । सहशवस्त्वनुभवादिष्टार्थस्मृतिर्जायत इत्यर्थः । अत्र गिरेः कनकपरिधित्वविनीलमूर्त्तित्वाभ्यां स्फुटिततडितो मेघस्य साम्यमुत्प्रेक्ष्यते ॥१७॥
अथ तस्याः साभिज्ञानं वक्तुमुपक्रमतेइतः पादवेष्टितानि ।
१३