________________
१९२
पार्श्वाभ्युदयकाव्यं
मदीया । " दोश्छः " । वापी च दीर्घिकापि । “ वापी तु दीर्घिका " इत्यमरः । अस्तीति शेषः ॥ १४ ॥
तां जानीयाः कमलरजसा ध्वस्ततापांततापां मत्पुण्यानां सृतिमिव सतीं वापिकां विस्तृतोर्मिम् । यस्यास्तोये कृतवसतयो मानसं सन्निकृष्टं
46
न ध्यास्यन्ति व्यपगत शुचस्त्वामपि प्राप्य हंसाः ॥ १५ ॥ १६।१३ तामिति ॥ यस्याः वाप्याः । तोये सलिले । “ अम्भोर्णस्तोयपानीयम् " इत्यमरः । कृतवसतयः कृतनिवासाः । त्वामपि मेघमपि । प्रेक्ष्य दृष्ट्वा । व्यपगतशुचः व्यपगताः शुचः शोकाः येषां ते । मन्युशोकौ तु शुक् स्त्रियाम् ” इत्यमरः । वर्षाकालेऽपि अकलुषजलत्वादिसहायाद्विगतदुःखाः सन्तः । हंसा: मरालाः । सन्निकृष्टं सन्निहितं सुगममित्यर्थः । मानसं मानससरोवरम् । न ध्यास्यन्ति न स्मरिष्यन्ति । कमलरजसा पद्मरेणुना । ध्वस्ततापान्ततापां ध्वस्तो नष्टः तापान्तस्य ग्रीष्मस्य तापस्तपनं यस्यास्ताम् । विस्तृतोर्मिं विस्तृता ऊर्मयो यस्यास्ताम् । भङ्गस्तरङ्ग ऊमिर्वा " इत्यमरः । सतीं समीचीनाम् । तां वापिकां दीर्घिकाम् । मत्पुण्यानां मम सुकृनाम् सृतिमिव सरणमिव " सृतिस्तु गतिमार्गयोः " इति भास्करः । जानीया: जानीहि ॥ १५ ॥
66
अन्यच्चास्मिन्नुपवनघने महोपान्तदेशे
स्यादाख्येयं मयकि सुतरां प्रत्ययो येन ते स्यात् । तस्यास्तीरे विहितशिखरः पेशलैरिन्द्रनीलैः
क्रीडाशैलः कनककदलीवेष्टन प्रेक्षणीयः ॥ १६ ॥
अन्यच्चेति । अस्मिन्नेतस्मिन् । उपवनघने उपवननिरन्तरे । महोपान्तदेशे मम गृहपार्श्वप्रदेशे । येन केनचित् । मयकि मय्ये -