________________
सटीकम् । अत्यन्तविनीतवर्तनेन । “अनूचानो विनीते स्यात्साङ्गवेदविचक्षणे" इति विश्वः । " वृत्तिर्वर्तनजीवने" इत्यमरः ॥ कतिचित् कियतः॥ मासान् नीत्वा यापयित्वा ॥ अनुशयात् पश्चात्तापात् । “ अथाऽनुशयो दीर्घद्वेषानुतापयोः” इत्यमरः ॥ यं च भ्रातरम् ॥ अन्विछन् अन्वेषयन् ॥ वनं काननम् ॥ नदीम् आपगाम् ॥ उत्तरारोहशैलान् उत्तरः आरोहो येषां शैलानां ते तथोक्तास्तान् उपरिभागप्रचारयोग्यानद्रीनित्यर्थः। “ उपर्युदीच्यश्रेष्ठेष्वप्युत्तरं स्यादनुत्तरम्" इत्यमरः । अत्र शैलस्य उत्तरारोहविशेषणं नरविहारोचितानामद्रीणां निरवशेषत्वं व्यञ्जयति ॥ चिरं बहुवासरान् । “चिरायचिररात्रायचिरस्याद्याश्चिरार्थकाः ” इत्यमरः ।। उद्धान्तः परिभ्रमति स्म ॥६॥ यं चापश्यगिरिवननदीः पर्यटन्सोपि कृच्छ्रा
दध्वश्रान्तः कतिपयथकैर्वासरैरद्रिकुले । दूरामप्रततवपुषं नीललेश्यं यथोच्चै
राषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुम् ॥ ७ ॥ यंचापश्यदिति॥सोपि मरुभूतिरपि। गिरिवननदीः पर्वतकान्तारसरितः ॥ कृच्छ्रात् कष्टात् । “स्यात्कष्टं कृच्छ्रमाभीलम्" इत्यमरः। पर्यटन् पर्यटतीति पर्यटन् । अट् गताविति धातोः शतृत्यः ॥ अध्वश्रान्तः मार्गायस्तः । “ अयनं वर्त्ममार्गाध्वपन्थानः पदवी मृतिः " इत्युक्तेः ॥ आषाढस्य आषाढ्या चन्द्रोपेतया युक्ता पौर्णमासी आषाढी "चन्द्रोपेतात्काले” इत्यण् । टिटठणि इति ङी। आषाढी पौर्णमासी अस्यास्तीत्याषाढो मासः। “सास्य पौर्णमासी" इत्यण् । तस्य । प्रथमदिवसे प्रतिपद्दिने ॥ आश्लिष्टम् आक्रान्तं सानुपर्वततटं येन स तथोक्तस्तम् । “स्नुः प्रस्थः सानुरस्त्रियाम्" इत्यमरः। उच्चैः अनल्पम् । "महत्युच्चैः” इत्यमरः।। मेघं वारिवाहम्॥ यथा येन प्रकारेण । यत्तदोनित्यसम्बन्धात्तथेति गम्यते। यद्वत्तद्वदितिशेषः । “व वा यथा तथैवैवं