________________
पार्थाभ्युदयकाव्यं साम्ये" इत्यमरः॥ धूमप्रततवपुषं धूमेन प्रततम् आवृतं वपुः शरीरं यस्य स इति बहुपदो बहुव्रीहिः । विस्तृतं प्रततमिति । “ गात्रं वपुः संहननम्" इत्यभिधानात् । पञ्चाग्निमध्यगतत्वादिति भावः ॥ नीललेश्यं नीला लेश्या परिणामविशेषो यस्य तम् ॥ यं च कमठं च ॥ अद्रिकुजे पर्वतनिकुञ्ज । "अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः।" निकुञ्जकुजौ वा क्लीबे” इत्युभयत्राप्यमरः॥ कतिपयथकैः कियद्भिः। " षट्कतिपयात् प्थट ” इति प्थत्यः। कतिपयानां पूरणाः कतिपयथाः त एव कतिपयथकास्तैः।। वासरैः दिवसैः॥ दूरात् दविष्ठप्रदेशात् ॥ अपश्यत् ददर्श । दृशू प्रेक्षणे । इतिधातोर्लङि “पाघ्राध्मा" इत्यादिना पश्यादेशः ॥ ७ ॥ यश्चाबद्धभ्रुकुटिकुटिलभूतटो जिह्मवक्रः
क्रोधावेशाज्ज्वलदपघनो भ्रातरं तं तदानीम् । स्नहोद्रेकाच्चरणपतितं नापदृष्टिविरूक्षं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ ८॥२॥ यश्चेत्यादि । तदानीं तदर्शनावसरे । “ सदैतीधुनेदानींतदानीं सद्यः” इति काले साधुः॥ यः कमठः॥ आबद्धभ्रुकुटिकुटिलभूतटः आबद्धा रचिता भ्रुकुटिदर्शनविकारजो भ्रूभङ्गविशेषो यस्य तत् । " ध्रुवोश्च कुटिकुंस-" इति हखः । कुटिले च ते ध्रुवौ च तथोक्ते तयोस्तटम् आबद्धं भ्रुकुटिकुटिलभूतटं यस्य स तथोक्तः । “ आविद्धं कुटिलं भुमं वेल्लितं वक्रमित्यपि” इत्यमरः ॥ जिमं वक्र वक्र मुखं यस्येति बहुव्रीहिः। “ जिह्मस्तु कुटिलेऽलसे ।” “वक्रास्ये वदनं तुण्डम्" इत्युभयत्राप्यमरः । क्रोधावेशात् क्रोधस्य कोपस्यावेशात् अवतारात् । “ कोपक्रोधामर्षरोष-" इत्यमरः । ज्वलदपघनः ज्वलतीति ज्वलन् । “ शतृत्यः ” ज्वलन्नपघनोङ्गं यस्य सः तथोक्तः । “ अङ्गं प्रतीकोऽवयवोऽपघनः" इत्यमरः ॥ अपदृष्टिः विमुखदर्शनः