________________
पार्श्वभ्युदयकाव्यं कत्यः “शुष्पचः कम्” इति तस्य कः ॥ विविधवृतयः विविधाश्च ताः वृतयश्चेति बहुव्रीहिः । “ विविधः स्याद्बहुविधम् ” इति “प्राचीन प्रान्ततो वृतिः” इति च वचनात् प्रान्तावरणानीत्यर्थः ॥ उपभोग्या न स्थातुं योग्या न भवन्ति । गम्याश्च न विहारयोग्याश्च न भवन्ति ॥ तस्मिन् अद्रौ तद्रामगिरौ॥ यः अबलाविप्रयुक्तः स्त्रीवियुक्तः सन् । शुष्कवैराग्यहेतोः निष्फलविरक्तिनिमित्तम् ॥ कतिचित् कियतः ॥ ग्रैष्मान ग्रैष्मस्य इमे ग्रैष्मास्तान् ॥ दिवसान वासरान् । " क्लीबे दिवसवासरौ” इत्यमरः ।। नयति स्म यापयति स्म ॥ स कामी विषयाभिलाषुकः । कमठः सोसाविति नवमवृत्तेनाकाङ्क्षानिवृत्तिः ॥५॥
यं चान्विच्छन्वनमथ नदीमुत्तरारोहशैला
नित्युड्रान्तश्चिरमनुशयादातृभक्तः कनीयान् । शोकादेहे कतिचिदवशादत्यनूचानवृत्त्या नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः ॥६॥
यं चेत्यादि । अथ अनन्तरे । “ मङ्गलानन्तरारम्भप्रश्नकात्स्न्यैध्वथो अथ " इत्यमरः ॥ भ्रातृभक्तः ज्येष्ठभ्रातृवत्सलः ॥ कनीयान् मरुभूतिः । “ कनीयांस्तु युवाल्पयोः ” इत्यमरः ॥ देहे शरीरे । अवशात् अनधीनात् । अपरिमितादित्यर्थः । शोकात् दुःखात् ॥कनकवलयभ्रंशरिक्तप्रकोष्ठः । कनकस्य वलय इति तत्पुरुषः । “कटकं वलयोऽस्त्रियाम् ” इत्यमरः । तस्य । भ्रंशः पातः। “भ्रेषो भ्रंशो यथोचितात् ” इत्यमरः । तेन रिक्तो विकलः प्रकोष्ठः कूपराऽधः प्रदेशो यस्य स तथोक्तः सन् । “ कक्षान्तरं प्रकोष्ठः स्यात् । प्रकोष्ठःकूर्परः” इति शाश्वतः । " स्यात्कफोणिस्तु कूर्परः । अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः ” इत्यमरश्च । अत्रोपलक्षणभूतेन वलयभ्रंशेन दुःखाधिक्यं विरागश्च व्यज्यते ॥ अत्यनूचानवृत्त्या