________________
सटीकम् ।
व्रीहिः । उद्धृतभुजः । “ भुजबाहू प्रवेष्टो दोः ” इत्यमरः॥ परुषमननः परुषं कठिनं मननं चिन्तनं यस्येति बहुव्रीहिः ॥ “निष्ठुरं कठिनम् ” इत्यमरः ॥ पञ्चतापं पञ्च तापाः यस्मिन्निति बहुव्रीहिः॥ तपः तपश्चरणम् । पञ्चाग्निमध्यस्थितिरूपं कायमात्रशोषणमिति यावत् ।। कुर्वन् करोतीति कुर्वन् स । भवन् । “ शतृत्यः” ॥ स्त्रिग्धच्छायातरुषु स्निग्धाः सान्द्राः छायातरवः नमेरुवृक्षाः येषु तेषु । सुखवसतियोग्येष्वित्यर्थः । “स्निग्धं तु ममृणे सान्द्रे” “छायावृक्षो नमेरुः स्यात् ” इत्युभयत्र शब्दार्णवः ॥ रामगिर्याश्रमेषु रामगिरिनामपर्वतस्थिततापसाश्रमेषु ॥ तापसानां तपसि नियुक्तास्तापसास्तेषाम् ॥ मनोज्ञां रम्याम् । “ मनोज्ञं मजु मजुलम् ” इत्यमरः ॥ वसतिं स्थानम् ॥ न स्मरति स्म न ध्यायति स्म । “स्मे च लिट् " इति भूतानद्यतनेर्थे लिट् । मनसापि नास्मरदित्यभिप्रायः ॥ ४ ॥ यस्मिन्यावा स्थपुटिततलो दावदग्धाः प्रदेशाः
शुष्का वृक्षा विविधवृतयो नोपभोग्या न गम्याः। यस्माद्वैष्मान्नयति दिवसाशुष्कवैराग्यहेतो__ स्तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी ॥५॥ यस्मिन्नित्यादि ॥ यस्मिन् पर्वते ॥ ग्रावा उपलः। जात्यैकवचनम् । "ग्रावाणौ शैलपाषाणौ” इत्यमरः ॥ स्थपुटिततलः स्थपुटितं निनोऋतं तलमधःप्रदेशो यस्येति बहुव्रीहिः । “स्थपुटं विषमोनतम्" इति धनञ्जयः ॥ “ अधःस्वरूपयोरस्त्री तलं स्यात् ” इत्यमरः ।। प्रदेशाः अरण्यदेशाः ॥ दावदग्धाः दावाग्निना भस्मिताः। “दवदावी वनारण्ये " इत्यभिधानात् ।। वृक्षास्तरवः ॥ शुष्यन्ति स्म शुष्काः ।
१ अत्र तापसानां मिथ्यातपखिनां संबंधि पंचाग्निमध्यस्थितिरूपं तपः कुर्वन्मनोज्ञां सकलभोग्यद्रव्यजातभरितत्वेन रमणीयां वसतिं सदनं " वसती रात्रिवेश्मनोः" इत्यमरः ॥ नास्मरदित्यपि भाति.