________________
१८८
पार्धाभ्युदयकाव्यं दिगिभविभुभिः दिग्गजेन्द्रैः । उच्चैरधिकम् । स्पर्धमाना इव स्पर्धन्ते इव स्पर्धमानाः स्पर्धा कुर्वन्त इव । मन्दाक्रान्ताः मन्दमाक्रमन्ति स्म तथोक्ताः मन्दगामिनः । भवन्तीति शेषः । वृत्तनामापि ध्वन्यते॥८॥ मन्ये तेपि स्मरपरवशाः कामिनीदृष्टिबाणै
र्जायेरन्ये त्वमिव मुनयो धीधना यत्र केऽमी। योधागण्यः प्रतिदशमुखं संयुगे तस्थिवांसः __प्रत्यादिष्टाभरणरुचयश्चन्द्रहासत्रणाकैः ॥ ९॥ १३ ॥
मन्य इति ॥ यत्र अलकायाम् । त्वमिव भवानिव । ये केचित् । धीधनाः धीरेव धनं येषां ते तथोक्ताः । मुनयः यतयः। तेऽपि तारशा अपि । कामिनीदृष्टिबाणैः । कान्ताजननयनशरैः । स्मरपरवशाः मन्मथवशगताः । जायेरन् भवेयुः । मन्ये इति बुध्ये । संयुगे सङ्गामे । प्रतिदशमुखं प्रतिदशग्रीवम् । तस्थिवांसः तस्थुरिति तस्थिवांसः । रावणस्य पुरस्तात् स्थितवन्त इत्यर्थः । चन्द्रहासव्रणाकैः चन्द्रायुधव्रणचिह्नः । “ चन्द्रहासासिरिष्टयः” इत्यमरः प्रत्यादिष्टा भरणरुचयः प्रत्याहतभूषणकान्तयः । अमी योधाग्रण्यः एते भटाग्रेसराः । किं कियन्तः । इति कुत्सोक्तेः । स्मरपरवशाः कथं न भवेयुरित्यर्थः ॥९॥ ' कामस्यैवं प्रजननभुवं तां पुरीं पश्य गत्वा
मिथ्यालोको वदति जडधीनन्विदं लोकमूढम् । मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं
प्रायः स्वापं न वहति भयान्मन्मथः षट्पदज्यम् ॥ १० ॥ : कामस्येति ॥ यत्र राजधान्याम् । साक्षात्प्रत्यक्षेण । वसन्तं दि. १ मुद्रालंकारः। 'सूच्यार्थसूचनं मुद्राप्रकृतार्थपरैः पदैः इति लक्षणात्। २ पद्यमिदं मेघदूते नास्ति ॥