________________
. सटीकम् ।
१८९ द्यमानम् । धनपतिसखं धनपतेः कुबेरस्य सखा धनपतिसखस्तम् । " राजन्सखेः” इत्यत् । देवम् ईश्वरम् । मत्वा अवबुध्य । मन्मथः कामः । भयात् भयोत्पातेक्षणभीतेः । षट्पदज्यं षट्पदा एव ज्या मौर्वी यस्य तम् । “षट्पदभ्रमरालयः।' 'मौर्वी ज्या सिञ्जिनीगुणः।" इत्युभयत्राप्यमरः । चापं धनुर्दण्डम् । प्रायः बाहुल्येन । न वहति न धरति । इति जडधीः मन्दबुद्धिः । मिथ्यालोकः मिथ्यादृष्टिजनः । वदति ब्रूते । इदं मिथ्यादृग्वचः । लोकमूढं ननु लोकमूढ एव हि । एवम् इति । कामस्य मन्मथस्य । प्रजननभुवं जन्मभूमिम् । " जनुर्जननजन्मानि ” इत्यमरः । तां पुरीम् । अलकानगरीम् । गत्वा । पश्य प्रेक्षस्व ॥ १० ॥
स्याद्वाऽसत्यं कुकविरचितं काव्यधर्मानुरोधात्
सत्यप्येवं सकलमुदितं जाघटीत्येव यस्मात् । सभ्रूभङ्गं प्रहितनयनैः कामिलक्ष्येष्वमोथै
स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥११॥१४॥१०॥
स्यादिति । कुकविरचितं कुत्सितकविकल्पितम् । असत्यं वा मिथ्या वा । स्याद्भवेत् । एवं सत्यपि तथा चेदपि । काव्यधर्मानुरोधात् काव्यधर्मस्य कवितासमयस्य अनुरोधादानुकूल्यात् । सकलं सर्वम् । उदितम् उदयितम् वर्णनाधिकमित्यर्थः । यस्मात् कारणात् । जाघटीत्येव भृशं घटत एव । तस्मात् कारणात् । तस्य मन्मथस्य आरम्भः कामिजनविजयाप्रारम्भः । सभ्रूभङ्गं भ्रूभङ्गेण सहितं यथा तथा । प्रहितनयनैः प्रहितानि प्रयुक्तानि नयनानि येषु तैः । कामिलक्ष्येषु कामिन एव लक्ष्याणि तेषु । अमोधैः सफलैः सार्थकप्रयोगैरित्यर्थः । चापं कदाचिन्मोघमपि स्यादिति भावः । चतुरवनिताविभ्रमैरिव चतुराश्च वनिताश्च तासां विभ्रमैविलासैरेव सिद्धः नि