________________
सटीकम् ।
लाक्षारागं चरणकमलन्यासयोग्यं च यस्मिन्
एकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥७ ॥१२॥११॥ रुच्याहारमिति ।। यस्मिन् वै भ्राजवने । एकः कल्पवृक्षः एकः सुरद्रुमः । रुच्याहारं स्वाद्यमाहारम् । अभिमतं सम्मतम् । रसं रसविशेषम् । प्राणधार्यमेतत् । स्रग्विकल्पं मालाप्रभेदम् । कण्ठधायमेतत् । विपञ्चीं वीणाम् । कर्णश्राव्यमेतत् । स्वरुचिरचितानि स्वेच्छाकल्पितानि आहार्याणि मनोहराणि । अंशुकानि वस्त्राणि कटिधार्यमेतत् । अङ्गरागं लेपनम् अवधार्यमेतत् । चरणकमलन्यासयोग्यं चरणकमलयोन्यसस्य समर्पणस्य योग्यम् । लाक्षारागं रज्यतेऽनेनेति रागो रञ्जनद्रव्यं लाक्षैव रागस्तम् । इदं च पादानुलेपनमण्डनोपलक्षणमिति । सकलं च समस्तमपि । अबलामण्डनं वनिताप्रसादनम् । प्रसूते जनयति ॥ ७ ॥
भूमिं स्प्रष्टुं द्रुतमुखखुरा गहमाना इवामी पत्रश्यामा दिनकरहयस्पर्धिनो यत्र वाहाः । मन्दाक्रान्तादिगिभविभुभिः स्पर्धमाना इवोच्चैः
. शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् ॥ ८ ॥
१८७
भूमिमिति । यत्र राजधान्याम् । पत्रश्यामाः पत्रमिव श्यामला हरिद्वर्णा इत्यर्थः । दिनकरहयस्पर्धिनः सूर्यस्य हयैरश्वैः स्पार्धनः स्पर्धाशीलाः । अमी वाहा अश्वाः । " वाहोश्वस्तुरगो वाजी " इति धनञ्जयः । भूमिं भुवम् । स्प्रष्टुं स्पर्शनाय । गह्नमाना इव गन्ते इति गमाना: जुगुप्सावन्त इव । द्रुतमुखखुरा: मुखं च खुराश्च मुखखुराः द्रुताः तस्य परस्य वेगिनो मुखखुरा येषां ते तथोक्ताः । शीघ्रगामिनः भवन्तीति शेषः । त्वमिव भवानिव । वृष्टिमन्तः वर्षन्तः । शैलोदप्राः पर्वत इवोन्नताः । करिणाः गजाः । प्रभेदात् प्रकृष्ट भेदः प्रभेदस्तस्मात् । महतोन्तरात् तेभ्योप्यतिशयात् इत्यर्थः ।