________________
१८६
पार्धाभ्युदयकाव्यं येषां ते तथोक्ताः। “वारस्त्री गणिका वेश्या रूपाजीवाऽथ साजनैः। सत्कृता वारमुख्या स्यात् " इत्यमरः । बद्धालापाः सम्भावितसंल्लापाः । “बद्धापाङ्गाः” इति वा पाठः । कामिनः कामुकाः । वित्तभर्तुः धनपतेः । भृत्याः अनुचराः । कामदायि मनोरथप्रदम् । वैभ्राजाख्यं चैत्ररथस्य नामान्तरम् । बहिरुपवनं बाह्योपवनम् । भृङ्गैः भ्रमरैः । समं सह । निर्विशन्ति प्रविशन्ति । सुगन्धदेहस्य भ्रमरा मुह्यन्तीति भावः ॥५॥ यस्मिन्कल्पद्रुमपरिकरः सर्वकालोपभोग्या
निष्टान्भोगान्सुकृतिनि जने शंफलान्पम्फलीति । वासश्चित्रं मधु नयनयोविभ्रमादेशदक्षं ___पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पम् ॥ ६ ॥ - यस्मिन्निति ॥ यस्मिन् चैत्ररथवनोद्देशे । कल्पद्रुमपरिकरः सुरद्रुमनिचयः । “ वृन्दप्राभवयोश्चैव पर्यङ्कपरिवारयोः । आरम्भे च परिस्तारे भवे परिकरस्तथा " इत्यभिधानात् । चित्रं नानावर्णम् । क्षौममिति वा पाठः । वासो वसनम् । नयनयोः अक्ष्णोः । विभ्रमादेशदक्षं विभ्रमाणामादेशे दक्षं समर्थम् । विभ्रमदायकमित्यर्थः । पुष्पोद्भेदं पुष्पोद्भवम् । मधुवृष्यरसम् । विभ्रमादानद्वारा मधुनो मंडनत्वं किसलयैः पल्लवैस्सह अमा भूषणानां विकल्पं विशेषं इष्टान् एवंरूपानभिलषितान् । सर्वकालोपभोग्यान सर्वकालेषूपभोक्तुं योग्यान् । शंफलान् शंसुखमेव फलं येषां तान् । भोगान् इन्द्रियविषयान् । सुकृतिनि सुकृतमस्यास्तीति सुकृती तस्मिन् पुण्यवति । जने लोके । पम्फलीति भृशं फलति " चर्फलां"इति मम्" ॥६॥ .- रुच्याहारं रसमभिमतं तन्विकल्पं विपञ्ची
माहार्याणि स्वरुचिरचितान्यंशुकान्यङ्गरागम् । १ वृष्यरस इत्युक्ते मदजनकपानमित्यर्थः ।